________________
आप्तपरीक्षा।
mmmmmmmmmmmmmm इह तंतुषु पट इत्यादिरिहेदं प्रत्ययः समवायसंबंधनिबंधन एव, निर्बाधत्वे सत्ययुतसिद्धेहेदंप्रत्ययत्वात् । यस्तु न समवायसंबंधनिबंधनः स नैवं यथेहसमवायिषु समवाय इति वाध्यमानेहेदं प्रत्ययः । इह कुंडे दधीति युतसिद्धेहेदं प्रत्ययश्च । निर्बाधत्वेसत्ययुतसिद्धेहेदं प्रत्ययश्चायमिह तंतुषु पट इत्यादिः, तस्मात्समवायसंबंधनिबंधन इति केवलव्यतिरेकी हेतुरसिद्धत्वादिदोषरहितत्वात् स्वसाध्याविनाभावी समवायसंबंधं साधयतीति परैरभिधीयते सत्यामयुतसिद्धाविति वचनसामर्थ्यात् । तत्रेदमयुतसिद्धत्वं यदि शास्त्रीयं हेतोर्विशेषणं तदा न साधु प्रतिभासते समवायिनोरवयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोः सामान्यतद्वतोविशेषतद्वतोश्च शास्त्रीयस्यायुतसिद्धत्वस्य विरहात् वैशेषिकशास्त्रे हि प्रसिद्धम्- अपृथगाश्रयवृत्तित्वमयुतसिद्धत्वं' । तच्चेह नास्त्येव यतःकारणद्रव्यं तंतुलक्षणं स्वावयवांशेषु वर्तते कार्यद्रव्यं च पटलक्षणं स्वावयवेषु तंतुषु वर्तत इति स्वावयवाधारमित्यनेनावयवावयविनोः पृथगा श्रयवृत्तित्वसिद्धेरपृथगाश्रयवृत्तित्वमसदेवेति प्रतिपादितं, यतश्च गुणः कार्यद्रव्याश्रयो रूपादि । कार्यद्रव्यं तु स्वावयवाधारं प्रतीयते तेन गुणगुणिनोरपृथगाश्रयवृत्तित्वमसंभाव्यमानं निवेदितं । एतेन क्रियायाः कार्यद्रव्यवर्तनात्कार्यद्रव्यस्य च स्वावयवेषु, क्रियाक्रियावतोरपृगाश्रयवृत्तित्वाभावः कथितः । तथा सामान्यस्य द्रव्यत्वादेर्द्रव्यादिषु वृत्तेद्रव्या दीनां च स्वाश्रयेषु, सामान्यतद्वतोः पृथगाश्रयवृत्तित्वं ख्यापितं । तथैवापरविशेषस्य कार्यद्रव्येषु प्रवृत्तेः कार्यद्रव्याणां च स्वावयवेषु विशेषतद्वतोरपृथगाश्रयवृत्तित्वं निरस्तं वेदितव्यं । ततो न शास्त्रीयायुतसिद्धिःसमवायिनोरस्ति या तु लौकिकी लोकप्रसिद्धैकभाजनवृत्तिः सा दुग्धांभसोरपि युतसिद्धयोरस्तीति तयापि सत्या नायुतसिद्धत्वं समवायिनोः साधीय