________________
५६
श्रीविद्यानंदिस्वामिविरचिता
wwwwwwwmmmmmmmmmmmmmmmmmmmmmmm
हि युतसिद्धानामनाधाराधेयभतानां च प्रतीयते विषयविषयिभाववत् । ततोऽनेनानवधारितविषयेण न व्यभिचारः संभाव्यते । नन्वेवमयुतसिद्धानामेवेत्यवधारणाव्यभिचाराभावादाधाराधेयभूतानामिति वचनमनर्थकं स्यात् आधाराधेयभूतानामेवेत्यवधारणे सत्ययुतसिद्धानामिति वचनवत् विषयविषयिभावस्य वाच्यवाचकभावस्य च युतसिद्धानामप्यनाधार्याधारभूतानामिव संभवात् तेन व्यभिचाराभावादिति च न मननीयं । घटायेकद्रव्यसमवायिनां रूपरसादीनामयुतसिद्धानामेव परस्परं समवायाभावादेकार्थसमवायेन संबंधेन व्यभिचारात् । नह्ययं युतसिद्धानामपि संभवति विषयविषयिभाववद्वाच्यवाचकभाववद्वा ततोऽयुतसिद्धानामेवेत्यवधारणेऽपि व्यभिचारनिवृत्त्यर्थमाधार्याधारभूतानामिति वचनं । तथाऽऽधार्याधारभूतानामेवेति वचनेऽप्याधाराधेयभावेन संयोगविशेषेण सर्वथाऽनाधार्याधारभूतानामसंभवता व्यभिचारः संभाव्यत एव तन्निवृत्यर्थमयुतसिद्धानामेवेति वचनमर्थवदेवेति निरवद्यमयुतसिद्धत्वाधार्याधारभूतत्वलक्षणं संयोगादिभ्यो व्यवच्छेदकं संबंधस्येहेदं प्रत्ययलिंगेन व्यवस्थापितस्य समवायस्वभावत्वं साधयत्येव । अतः संबंधमात्रेऽपि साध्ये न सिद्धसाधनमिति वैशेषिकाः संचक्षते तेषामयुतसिद्धानामिति वचनं तावंद्विचार्यते । किमिदमयुतसिद्धत्वं नामविशेषणं, वैशेषिकशास्त्रापेक्षया लोकापेक्षया वा स्यात् । उभयथापि न साध्वित्याह
सत्यामयुतसिद्धौ चेन्नेदं साधुविशेषणं । शास्त्रीयायुतसिद्धत्वविरहात्समवायिनोः ॥ ४२ ॥ द्रव्यं स्वावयवाधारं गुणो द्रव्याश्रयो यतः लौकिक्ययुतसिद्धिस्तु भवेद्दुग्धांभसोरपि ॥४३॥ १ अयुतसिद्धभिन्नानामित्यर्थः