________________
आप्तपरीक्षा।
वृक्षाणां संबंध इति न तेन व्यभिचारः । तथापि इहाकाशे शकुनिरिति इहेदं प्रत्ययेन संयोगसंबंधमात्रंनिबंधनेन व्यभिचार इत्याधाराधेयभूतानामिति निगद्यते । न हि यथाऽवयवावयव्यादीनामाधाराधेयभूतत्वमुभयोः प्रसिद्धं तथा शकुन्याकाशयोरौत्तराधर्यायोगात् आकाशस्य सर्वगतत्वेन शकुनेरुपर्यपि भावादधस्तादिवेति न तत्रेहेदंप्रत्ययेन व्यभिचारः । नन्वाकाशस्यातींद्रियत्वात्तदस्मदादीनामिहेदं प्रत्ययस्यासंभवात् कथं तेन व्यभि. चारचोदना साधीयसीति न मंतव्यं । कुतश्चिल्लिंगादनुमितेऽप्याकाशे श्रुतिप्रसिद्धेर्वा कस्यचिदिहेदमिति प्रत्ययाविरोधात् तत्र, भ्रांतेन वा केषां चिदिहेदमिति प्रत्ययेन व्यभिचारचोदनायाः न्यायप्राप्तत्वात् तत्परिहारार्थमाधाराधेयभूतानामिति वचनस्योपपत्तेः । नन्वेवमपीह कुंडे दधीति प्रत्ययेनानेकांतस्तस्य संयोगनिबंधनत्वेन समवायाहेतुत्वादिति न शंकनीयमयुतसिद्धानामिति प्रतिपादनात् । नहि यथावयवावयव्यादयोऽयुतसिद्धास्तथा दधिकुंडादयः तेषां युतसिद्धत्वात् । तमुयुतसिद्धानामेवेति वक्तव्य माधाराधेयभूतानामिति वचनस्याभावेऽपि व्यभिचाराभावादिति न चेतसि विधेयं । वाच्यवाचकभावेनाकाशाकाशशब्दयोर्व्यभिचारात् । इहाकाशे वाच्ये वाचक आकाशशब्द इति इहेदप्रत्ययलिंगस्यायुतसिद्धसंबंधस्य वाच्यवाचकभावप्रसिद्धेः तेन व्यभिचारोपपत्तेराधाराधेयभूतानामिति वचनस्योपपत्तेः । नन्वाधाराधेयभूतानामयुतसिद्धानामपि संबंधस्य विषयविषयिभावस्य सिद्धेः कुतः समवायसिद्धिः । नह्यात्मनि-इच्छादीनां ज्ञानमयुतसिद्धं न भवति । तथाहमितिज्ञानमाधाराधेयभावस्याप्यत्र भावात् नचाहमितिप्रत्ययस्यात्मविषयस्यायुतसिद्धस्यात्माधारस्य विषयविषयिभावोऽसिद्ध इति कुतस्तयोः समवाय एव सिध्येदिति न वक्तव्यं । आधाराधेयभूतानामेवायुतसिद्धानामेवेति चावधारणात् । वाच्यवाचकभावे