________________
५४
श्रीविद्यानंदिस्वामिविरचिता
यस्थापगंतव्यं । तदस्यता वा साधनज्ञातः । तदनेन काय
भावात् स्वसंतानस्याप्यनिष्टौ संविदद्वैतं कुतः साधयेत् । स्वतःप्रतिभासनादिति चेन्न, तथा वासनाविशेषादेव स्वतःप्रतिभासस्यापि भावात् । शक्यं हि वक्तुं स्वतःप्रतिभासवासनावशादेव स्वतःप्रतिभासः संवेदनस्य न पुनः परमार्थत इति न किंचित्पारमार्थिक संवेदनं सिध्येत् । तथाच स्वरूपस्य स्वतोगतिरिति रिक्ता वाचोयुक्तिः । तदनेन कुतश्चित्किंचित्परमार्थतः साधयता दूषयता वा साधनज्ञानं दूषणज्ञानं वाऽभ्रांतं सालंबनमभ्युपगंतव्यं । तद्वत्सर्वमबाधितं ज्ञानं सालंबनमिति कथमिहेदमिति प्रत्ययस्याबाधितस्य निरालंबनता येन वासनामात्रहेतुरयं स्यात् । नापि निर्हेतुकः कदाचित्कत्वात् । ततोऽस्य विशिष्टः पदार्थो हेतुरभ्युपगंतव्य इति वैशेषिकाः तेऽप्येवं प्रष्टव्याः । कोऽसौ विशिष्टः पदार्थः समवायः संबंधमानं वा । न तावत्समवायः, तद्धेतुकत्वे साध्येऽस्येहेदमिति प्रत्ययस्येह कुंडे दधीत्यादिना निरस्तसमस्तबाधकेन प्रत्ययेन व्यभिचारित्वात् , तदपीहेदमिति विज्ञानमबाधं भवत्येव । नच समवायहेतुकं तस्य संयोगहेतुकत्वात् । संबंधमात्रे तु तन्निबंधने साध्ये परेषां सिद्धसाधनमेव, स्याद्वादिनां सर्वत्रेहेदं प्रत्ययस्याबाधितस्य संबंधमात्रनिबंधनत्वेन सिद्धत्वात् । स्यान्मतं । वैशेषिकाणामबाधितेहेदं प्रत्ययाल्लिंगात्सामान्यतः संबंधे सिद्धे विशेषेणावयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोः सामान्यतद्वतोर्विशेषतद्वतोश्च यः संबंध इहेदं प्रत्ययलिंगः स समवाय एव भविष्यति लक्षणविशेषसंभवात् । तथा हि " अयुतसिद्धानामाधार्याधारभूतानामिहेदं प्रत्ययलिंगो यः संबंधः स समवाय इति प्रशस्तकरः" । तत्र इहेदं प्रत्ययलिंगः समवाय इत्युच्यमानेऽतरालाभावनिबंधनेन इह ग्रामे वृक्ष इति इहेदं प्रत्ययेन, व्यभिचारात् संबंध इति वचनं । संबंधो हि इहेदप्रत्ययलिंगो यः स एव समवाय इष्यते नचांतरालाभावो ग्राम