________________
आप्तपरीक्षा ।
५३
यदि स्वार्थव्यवसायात्मकं ज्ञानमीश्वरस्याभ्यनुज्ञायते तस्यास्मदादिविशिष्टत्वात् तदा तदीश्वराद्भिन्नमभ्युपगंतव्यं । अभेदे सिद्धांतविरोधात् । तथा चाकाशादेखि कथं तस्येति व्यपदेश्यमिति पर्यनुयुंज्महे । स्यान्मतं भिन्नमपि विज्ञानं महेश्वरात्तस्येति व्यपदिश्यते तत्र समवायात्, नाकाशादेरिति निर्द्दिश्यते तत्र तस्यासमवायादिति । तदप्ययुक्तं, ताम्यामीश्वरज्ञानाभ्यां भिन्नस्य समवायस्यापि कुतः प्रतिपत्तिरिति पर्यनुयोगस्य तदवस्थत्वात् । इहेदमिति प्रत्ययविशेषाद्वाधकरहितात् समवायस्य प्रतिपत्तिः तथाहि इदमिहेश्वरे ज्ञानमिती हे दंप्रत्ययो विशिष्टपदार्थहेतुकः सकलबाधकरहितत्वे सतीहेदमिति प्रत्ययविशेषत्वात् यो यः सकलबाधकरहितत्वे सति प्रत्ययविशेषः स स विशिष्टपदार्थहेतुको दृष्टः यथा द्रव्येषु द्रव्यमित्यन्वयप्रत्ययविशेषः सामान्यपदार्थहेतुकः सकलपदार्थबाधकरहितत्वे सति प्रत्ययविशेषश्चेदमिति प्रत्ययविशेषः तस्माद्विशिष्टपदार्थहेतुक इत्यनुमीयते । योऽसौ विशिष्टः पदार्थस्तद्धेतुः स समवायः, पदार्थांतरस्य तद्धेतोरसंभवात्तद्धेतुकत्वायोगाच्च, न हीह तंतुषु पट इति प्रत्ययस्तंतु हेतुकः, तंतुषु तंतव इति प्रत्ययस्योत्पत्तेः नापि पटहेतुकः पटापट इति प्रत्ययस्योदयात् । नापि वासनाविशेष हेतुकः तस्याः कारणरहितायाः संभवाभावात् । पूर्वे तथाविधज्ञानस्य तत्कारणत्वे तदपि कुतो । हेतोरिति चिन्त्यमेतत् । पूर्वतद्वासनात इति चेन्न, अनवस्थाप्रसंगात् । ज्ञानवासनयोरनादिसंतानपरिकल्पनायां कुतो बहिरर्थसिद्धिरनादिवासना - बलादेव नीलादिप्रत्ययानामपि भावात् । नचैवं विज्ञानसंताननानात्वसिद्धिः संतानांतरग्राहिणो विज्ञानस्यापि संतानांतरमंतरेण वासनाविशेषादेव तथाप्रत्ययप्रसूतेः स्वप्नसंतानांतरप्रत्ययवत् । नानासंतानानभ्युपगमे चैकज्ञानसंतान सिद्धिरपि कुतः स्यात् । स्वसंतानाभावेऽपि ताहिणः प्रत्ययस्य