________________
५२
श्रीविद्यानंदिस्वामिविरचिता
सकलकारकशक्तिनिकरसंवेदकं यथा चक्षुः, तथाचेश्वरज्ञानं तस्मान तथेति कुतः समस्तकारकाधिष्ठायकं यतस्तदाश्रयस्येश्वरस्य निखिलकार्योत्पत्तौ निमित्तकारणत्वं सिध्येत् असर्वज्ञताया एव तस्यैव प्रसिद्धेः । अथवा यदीश्वरस्य ज्ञानं स्वयमीश्वरेण न संवेद्यत इत्यस्वसंविदितमिष्यते तदा तस्य सर्वज्ञता न स्यात् स्वज्ञानप्रवेदनाभावात् । ननु च सर्व ज्ञेयमेव जानन् सर्वज्ञःकथ्यते न पुनर्ज्ञानं तस्याज्ञेयस्वात् । नच तदज्ञाते ज्ञेयपरिच्छित्तिर्न भवेत् चक्षुरपरिज्ञाने तत्परिच्छेद्यरूपापरिज्ञानप्रसंगात् । करणापरिज्ञानेऽपि विषयपरिच्छित्तेरविरोधादित्यपि नानुमंतव्यं । सर्वग्रहणेन ज्ञानज्ञेयज्ञातृज्ञप्तिलक्षणस्य तत्त्वचतुष्टयस्य प्रतिज्ञानात् 'प्रमाणं प्रमाता प्रमेयं प्रमितिरिति चतसृषु चैवंविधासु तत्त्वं परिसमाप्यत' इति वचनात् । तदन्यतमापरिज्ञानेऽपि सकलतत्त्वपरिज्ञानानुपपत्तेः कुतः सर्वज्ञतेश्वरस्य सिध्येत् । ज्ञानांतरेण स्वज्ञानस्यापि वेदनान्नाऽस्यासर्वज्ञतेति चेत् तर्हि तदपि ज्ञानांतरं परेण ज्ञानेन ज्ञातव्यमित्यभ्युपगम्यमानेऽनवस्था महीयसी स्यात् । सुदूरमप्यनुसृत्य कस्यचिद्विानस्य स्वार्थावभासनस्वभावत्वे प्रथमस्यैव सहस्रकिरणवत् स्वार्थावभासनस्वभावत्वमुररीक्रियतामलमस्वसंविदितज्ञानकल्पनया, स्वार्थव्यवसायात्मकज्ञानाभ्युपगमे च युष्माकं तस्य महेश्वराद्भदे पर्यनुयोगमाह
तत्स्वार्थव्यवसायात्मज्ञानं मिन्नं महेश्वरात् । कथं तस्योति निर्देश्यमाकाशादिवदंजसा ॥ ३९ ॥ समवायेन तस्यापि तद्भिन्नस्य कुतो मतिः। इहेदमिति विज्ञानादबाध्याद्यभिचारि तत् ॥४०॥ इह कुंडे दधीत्यादि विज्ञानेनास्तविद्विषा । साध्ये संबंधमात्रे तु परेषां सिद्धसाधनं ॥४१॥