SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आप्तपरीक्षा। लिंगविशेषात्तत्परिच्छित्तिनिमित्तस्य लैंगिकस्य ज्ञानस्य सद्भावात् तथा स्वादृष्टविशेषाः कुंभकारादयः कुंभादिकार्याणि कुर्वति नेतरे तेषां तथाविधादृष्टविशेषाभावादित्यागमज्ञानस्यापि तत्परिच्छेदनिबंधनस्य सद्भावात् सिद्धमेव कुंभाकारादिज्ञानस्य कुंभादिकारकपरिच्छेदकत्वं तत्प्रयोक्तृत्वेन तदधिष्ठाननिबंधनत्वं ततस्तस्य दृष्टांततयोपादानान्न हेतोरन्वयत्वापत्तिरिति चेत् तर्हि सर्वसंसारिणां यथास्वं तत्वादिकार्यजन्मनि प्रत्यक्षतोऽनुमानादागमाच्च तन्निमित्तदृष्टादृष्टकारकविषयपरिज्ञानसिद्धेः कथमज्ञत्वं येनात्मनः सुखदुःखोत्पत्तौ हेतुत्वं न भवेत् यतश्च सर्वसंसारीश्वरप्रेरित एव स्वर्ग वा श्वभ्रं वा गच्छेदिति समंजसमालक्ष्यते । ततः किमीश्वरपरिकल्पनया दृष्टादृष्टकारकांतराणामेव क्रमाक्रमजन्मनामन्वयव्यतिरेकानुविधानात् क्रमा. क्रमजन्मानि तन्वादिकार्याणि भवंतु तदुपभोक्तृजनस्यैव ज्ञानवतः तदधिष्ठायकस्य प्रमाणोपपन्नस्य व्यवस्थापनात् । सांप्रतमभ्युपगम्यापि महेश्वरज्ञानं अस्वसंविदितं स्वसंविदितं वेति कल्पनाद्वितयसंभवे प्रथमकल्पनायां दृषणमाह अस्वसंविदितं ज्ञानमीश्वरस्य यदीष्यते । तदा सर्वज्ञता न स्यात् स्वज्ञानस्यामवेदनात् ॥ ३६॥ ज्ञानांतरेण तद्वित्तौ तस्याप्यन्येन वेदनं । वेदनेन भवेदेवमनवस्था महीयसी ॥ ३७॥ गत्वा सुदूरमप्येवं स्वसंविदितवेदने। इण्यमाणे महेशस्य प्रथमं तादृगस्तु वः ॥ ३८॥ महेश्वरस्य हि विज्ञानं यष्टि - वेदयते स्वात्मनि क्रियाविरोधात्तदा समस्तकारकशक्तिनिकरपति सबेदर्यत् ते हि-नेश्वरज्ञानं सकलकारकशक्किमिकरसंवद्धक स्वासंवेदकत्वात् । चत्तासंवेदकं तत्तन्न
SR No.022436
Book TitleAaptpariksha
Original Sutra AuthorN/A
AuthorVidyanandswami
PublisherJain Sahitya Prasarak Karyalay
Publication Year
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy