________________
श्रीविद्यानंदिस्वामिविरचितात्वमिति मतिः । तदा महेश्वरस्याप्यचेतनत्वप्रसगः तस्यापि स्वतोऽचेतनत्वात् तथा च दृष्टादृष्टकारणांतरवदीश्वरस्यापि हेतुकर्तुश्चेतनांतराधिष्ठितत्वं साधनीयं तथा चानवस्था सुदूरमपि गत्वा कस्यचित्स्वतश्चेतनत्वानभ्युपगमात् । महेश्वरस्य स्वतोऽचेतनस्यापि चेतनांतरराधिष्ठितत्वाभावे तेनैव हेतोरनेकांतिकत्वमिति कुतः सकलकारकाणां चेतनाधिष्ठितत्वसिद्धिः यत इदं शोभते " अज्ञो जंतुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वर. प्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव चेति' । स्यादाकूतं चेतनाज्ञानं तदधिष्ठितत्वं सकलकारकांतराणामचेतनत्वेन हेतुना साध्यते तच्च ज्ञानं समस्तकारकशक्तिपरिच्छेदकं नित्यं गुणत्वादाश्रयमंतरेणासंभावात् स्वाश्रयमात्मांतरं साधयति स नो महेश्वर इति । तदप्ययुक्तं । संसार्यात्मनां ज्ञान रपि स्वयं चेतनास्वभावैरधिष्ठितस्य शुभाशुभकर्मकलापस्य तत्सहकारिकदंबकस्य च तन्वादिकार्योत्पत्तौ व्यापारसिद्धेरीश्वरज्ञानाधिष्ठानपरिकल्पनावैयर्थ्यप्रसंगात् । तदन्वयव्यतिरेकाभ्यामेव तद्वयवस्थापनात । अथ मतमेतत् संसार्यात्मनां विज्ञानानि विप्रकृष्टार्थाविषयत्वान्न धर्माधर्मपरमाणुकालाद्यतींद्रियकारकविशेषसाक्षात्करणसमर्थानि । न च तदसाक्षात्करणे ततः प्रयोजकत्वं तेषामवतिष्ठते तदप्रयोजकत्वे च न तदधिष्ठितानामेव धर्मादीनां तन्वादिकार्यजन्मनिप्रवृत्तिः सिध्येत् ततोऽतींद्रियार्थसाक्षात्कारिणा ज्ञानेनाधिष्ठितानामेव स्वकार्ये व्यापारेण भवितव्यं तच्च महेश्वरज्ञानमिति । तदप्यनालोचितयुक्तिकं सकलातींद्रियार्थसाक्षात्कारिण एव ज्ञानस्य कारकाधिष्ठायकत्वेन प्रसिद्धस्य दृष्टांततयोपादीयमानस्यासंभवात्तदधिष्ठितत्वसाधने हेतोरनन्वयत्वप्रसक्तेः । न हि कुंभकारादेः कुंभाधुत्पत्तौ तत्कारकसाक्षात्कारि ज्ञानं विद्यते दंडचक्रादिदृष्टकारकसंदोहस्य तेन साक्षात्करणेऽपि तन्निमित्तादृष्टविशेषकालादेरसाक्षात्करणात् । ननु