________________
आप्तपरीक्षा। क्लेशकर्मविपाकाशयरपरामृष्टः समस्तकारकशक्तिपरिज्ञानभाक् सिसृक्षाप्र--- यत्नविशेषवांश्च प्रभुर्विभाव्यते तद्विपरीतस्य समस्तकारकाधिष्ठातृत्वविरोधात बहूनामपि समस्तकारकाधिष्ठायिनां पुरुषविशेषाणां प्रतिनियतज्ञानादिशक्तीनामेकेन महाप्रभुणाऽधिष्ठितानामेव प्रवृत्तिघटनात् सामंतमहासामंतमंडलीकादीनामेकं चक्रवर्त्यधिष्ठितानां प्रवृत्तिवदिति महेश्वरसिद्धिः । तत्राचेतनत्वादिति हेतोर्वत्सविवृद्धिनिमित्तं प्रवर्त्तमानेन गोक्षीरेणानैकांतिकत्वमिति न शंकनीयं । तस्यापि चेतनेन वत्सेनादृष्टविशेषसहकारिणाधिष्ठितस्यैव प्रवृत्तेः । अन्यथा मृते वत्से गोभक्तेनैव तस्य प्रवृत्तिविरोधात् । न च वत्सादृष्टविशेषवशात्प्रवृत्तावपि समानोऽयं दोष इति शक्यः तत्क्षीरोपभोक्तजनादृष्टविशेषसहकारिणापि चेतनेनाधिष्ठितस्य प्रवृत्तिघटनात् सहकारिणामप्रतिनियमात् । यदपि कश्चिदुच्यते महेश्वरोऽपि चेतनांतराधिष्ठितः प्रवर्तते चेतनत्वाद्विशिष्टकर्मकरादिवदिति । तदपि न सत्यं तदधिष्ठापकस्यैव महेश्वरत्वात् । यो ह्यत्योऽधिष्ठाता स्वतंत्रः स महेश्वरस्ततोऽन्यस्य महेश्वरत्वानुपपत्तेर्न चांत्योऽधिष्ठाता न व्यवतिष्ठते तन्वादिकार्याणामुत्पत्तिव्यवस्थानामभावप्रसंगात् । परापरमहेश्वरप्रतीक्षायामेवोपक्षी णशक्तित्वात् ततो निरवद्यमिदं साधनमिति कैश्चित् । तेऽपि न हेतुसामर्थ्यवोर्दनः । अचेतनत्वस्य हेतोः संसारिजनज्ञानेषु स्वयं चेतनस्वभावात्पक्षाव्यापकत्वात् । ननु च न चेतनत्वप्रतिषेधोऽचेतनत्वं किं तर्हि चेतनासमवायप्रतिषेधः स च ज्ञानेष्वस्ति तेषां स्वयं चेतनत्वात् तत्रापरचेतनासमवायाभावात् ततोऽचेतनत्वं साधनं न पक्षाव्यापकं ज्ञानेष्वपि सद्भावादिति त मंतव्यं । संसार्यात्मसु चेतनासमवायात् चेतनत्वप्रसिद्धेरचेतनत्वस्य हेतोरभावात् पक्षाव्यापकत्वस्य तदवस्थत्वात् । यदि तु संसार्यात्मनां स्वतोऽचेतनत्वादचेतनत्वस्य हेतोस्तत्र सद्भावान्न पक्षाव्यापक