________________
श्रीविद्यानंदिस्वामिविरचिता
निश्चतुमशक्तस्तन्वादिकार्य तद्धेतुकं कारणांतरापेक्षयापि न सिध्यत्येवेति स्थितं । कस्यचिन्नित्यव्यापीश्वरज्ञानाभ्युपगमेऽपि दूषणमतिदिशन्नाह,
एतेनैवेश्वरज्ञानं व्यापिनित्यमपाकृतं ।।
तस्येशवत्सदा कार्यक्रमहेतुत्वहानितः॥३५॥ एतेन व्यतिरेकामावान्वयसंदेहव्यवस्थापकवचनेन व्यापिनित्यमीश्वरज्ञानं तन्वादिकार्योत्पत्तिनिमित्तमपाकृतं वेदितव्यं तस्येश्वरवत्सर्वगतत्वेन क्वचिद्देशे नित्यत्वेन कदाचित्काले व्यतिरेकामावनिश्चयात् तदन्वयमात्रस्य चात्मांतरवन्निश्चेतुमशक्तेः तस्मिन्सति समर्थे युगपत्सर्वकार्याणामुत्पत्तिप्रसंगात् । सर्वदा कार्यक्रमहेतुत्त्वहानेः कालदेशकृतकमाभावात् सर्वथा स्वयं क्रमाभावात् ' क्रमवत्त्वे नित्यत्वसर्वगतत्वविरोधात् पावकादिवत् । स्यान्मतं प्रतिनियतदेशकालसहकारिकारणक्रममापेक्ष्य कार्यक्रमहेतुत्वं महेश्वरस्य च तद्विज्ञानस्यापि न विरुध्यते इति । तदप्यशक्यप्रतिष्ठं सहकारिकारणेषु क्रमवत्सु सत्सु तन्वादिकार्याणां प्रादुर्भवतां तेष्वसत्सु चानुत्पद्यमानानां तदन्वयव्यतिरेकानुविधानात् तद्धेतुकत्वस्यैव प्रसिद्धर्महेश्वरज्ञानहेतुकत्वं दुरुपपादमापनीपद्येत । यदि पुनः सकलसहकारिकारणानामनित्यानां क्रमजन्मनामपि चेतनत्वाभावाच्चेतनेनानधिष्ठितानां कार्यनिष्पादनाय प्रवृत्तेरनुत्पत्तेस्तुरीतंतुवेमशलाकादीनां कुर्विदनानधिष्ठितानां पटोत्पादनायाऽप्रवृत्तिवच्चेतनस्तदधिष्ठाता साध्यते । तथा हि विवादाध्यासितानि कारणांतराणि क्रमवर्तीन्यक्रमाणि च चेतनाधिष्ठितान्येव तन्वादिकाणि कुवैति स्वयमचेतनत्वात् यानि यानि अचेतनानि तानि तानि चेतनाधिष्ठितान्येव स्वकार्य कुर्वाणानि दृष्टानि यथा तुतित्वादीनि पटकार्य, स्वयमचेतनानि च कारणांतराणि तस्माच्चेतनाधिष्ठितान्येव तन्वादिकार्याणि कुवैति योऽसौ तेषामधिष्ठाता स महेश्वरः पुरुषविशेषः