________________
४७
आप्तपरीक्षा। रेकानुविधानमिष्यते तदेश्वरस्य तदिच्छाविज्ञानयोश्च नित्यत्वेऽपि तन्वादिकार्याणां तद्भाव एव भावात्तदन्वयस्तत्सहकारिकारणावस्थापाये च तेषामनुत्पत्तेर्व्यतिरेक इति तदन्वयन्यतिरेकानुविधानमिष्यतां विशेषाभावात् ततः सर्वकार्याणां बुद्धिमत्कारणत्वसिद्धिरिति परे प्रत्यवतिष्ठते तेऽपि न कार्यकारणभावविदः । स्याद्वादिनां द्रव्यस्य पर्यायनिरपेक्षस्य पर्यायस्य वा द्रव्यनिरपेक्षस्य द्रव्यपर्याययोर्वा परस्परनिरपेक्षयोः कार्यकारित्वानभ्युपगमात् तथा प्रतीत्यभावात् । द्रव्यपर्यायात्मकस्यैव जात्यंतरवस्तुनः कार्यकारित्वेन संप्रत्ययात् कार्यकारणभावस्य तथैव प्रसिद्धेः वस्तुनि द्रव्यरूपेणान्वयप्रत्ययविषये सत्येव कार्यस्य प्रादुर्भावात्तन्निबंधनपर्यायविशेषाभावे च कार्यस्याप्रादुर्भावात्तदन्वयव्यतिरेकानुकरणात्कार्यकारणभावो व्यवतिष्ठते । न च द्रव्यरूपेणापि वस्तुनो नित्यत्वमवधार्यते तस्य पर्यायेभ्यो भंगुरेभ्यः कथंचिदनांतरभावात् कथंचिदनित्यत्वसिद्धेमहेश्वरस्य तु वैशेषिकैः सर्वथा नित्यत्वप्रतिज्ञानात्तदन्वयव्यतिरेकानुकरणासंभवात्कार्याणामुत्पत्तेरयोगात् । पर्यायाणां च द्रव्यरूपेण नित्यत्वसिद्धेः कथंचिन्नित्यत्वात्सर्वथाऽनित्यत्वानवधारणात् विशिष्टपर्यायसद्भावे कार्यस्योदयात्तदभावे चानुदयात् कार्यस्य तदन्वयव्यतिरेकानुकरणसिद्धेः । निरन्वयक्षणिकपर्यायाणामेव तदघटनात् तत्र कार्यकारणभावाव्यवस्थितेः । पर्यायार्थिकनयप्राधान्यादविरोधात् द्रव्यार्थिकनयप्राधान्येन तदविरोधवत् । प्रामाणार्पणया तु द्रव्यपर्यायात्मनि वस्तुनि सति कार्यस्य प्रसवनादसति वाऽप्रसवनात्तदन्वयव्यतिरेकानुविधानं सकलननसाक्षिकं कार्यकारणभावं व्यवस्थापयेत् सर्वथैकांतकल्पनायां तदभावं विभावयतीति कृतमतिप्रसंगिन्या कथया । महेश्वरज्ञानस्य नित्यस्याव्यापिनोऽपि सर्वत्र कार्यकरणसमर्थस्य सर्वेषु देशेषु सर्वस्मिन्काले व्यतिरेकाप्रसिद्धेरन्वयस्यापि नियतस्य