________________
५८
श्रीविद्यानंदिस्वामिविरचिता
इति प्रतिपत्तन्यं ।
पृथगाश्रयवृत्तित्वं युतसिद्धिर्नचानयोः। सास्तीशस्य विभुत्वेन परद्रव्याश्रितिच्युतेः॥४४॥ ज्ञानस्यापीश्वरादन्यद्रव्यवृत्तित्वहानितः । इति येऽपि समादध्युस्तांश्च पर्यनुयुंज्महे ॥ ४५ ॥ विभुद्रव्यविशेषाणामन्याश्रयविवेकतः। युतसिद्धिः कथं नु स्यादेकद्रव्यगुणादिषु ॥४६॥ समवायः प्रसज्येतायुतसिद्धौ परस्परं ।। तेषां तद्वितयासत्वे स्यादव्याघातो दुरुत्तरः॥४७॥
ननु च पृथगाश्रयवृत्तित्वं युतसिद्धिः पृथगाश्रयाश्रयित्वं युतसिद्धिः इति वचनात् । पृथगाश्रयसमवायो युतसिद्धिरिति वदतां समवायस्य विवादाध्यासितत्वाल्लक्षणासिद्धिप्रसंगात् । लक्षणस्याकारकत्वेन ज्ञापक त्वेऽपि तेन सिद्धेन भवितव्यं । असिद्धस्य विवादाध्यासितस्य संदिग्धत्वात् तल्लक्षणत्वायोगात् । सिद्धं हि कस्यचिद्भदकं लक्षणमुपपद्यते नान्यथेति लक्ष्यलक्षणभावविदो विभावयंति । तत्र युतसिद्धत्वमीश्वरज्ञानयो स्त्येव महेश्वरस्य विभुत्वान्नित्यत्वाच्चान्यद्रव्यवृत्तित्वाभावान्महेश्वरादन्यत्र तद्विज्ञानत्वस्याप्रवृत्तेः पृथगाश्रयवृत्तित्वाभावात् । कुंडस्य हि कुंडावयवेषु वत्तिर्दध्नश्च दध्यवयवेष्विति कुंडावयवदध्यवयवाख्यौ पृथग्भूतावाश्रयौ तयोश्च कुंडस्य दध्नश्च वृत्तिरिति पृथगाश्रयवृत्तित्वं तयोरभिधीयते । न चैवंविधं पृथगाश्रयाश्रयित्वं समवायिनोः संभवति तंतूनां स्वावयवेष्वंशुषु यथा वृत्तिः न तथा पटस्य तंतुव्यतिरिक्त क्वचिदाश्रये न ह्यत्र चत्वारोऽर्थाः प्रतीयते-द्वावाश्रयौ पृथग्भूतौ द्वौ चाश्रयिणाविति । तंतोरेव स्वावयवापेक्षयाश्रयित्वात्पटापेक्षया वाश्रयत्वात्त्रयाणामेवार्थानां प्रसिद्धेः