________________
आप्तपरीक्षा। पृथगाश्रयाश्रयित्वस्य युतसिद्धिलक्षणस्याभावादयुतसिद्धत्वं शास्त्रीयं समवायिनोः सिद्धमेव ततोऽयुतसिद्धत्वविशेषणं साध्वेवासिद्धत्वाभावात् । लौकिक्ययुतसिद्धत्वं तु प्रतीतिबाधितं नाभ्युपगम्यत एव ततः सविशेषणाद्धेतोः समवायसिद्धिरिति येऽपि समादधते विदग्धवैशेषिकास्तांश्च पर्यनुयुंज्महे । विभुद्रव्यविशेषाणामात्माकाशादीनां कथं तु युतसिद्धिः परिकल्पते भवद्भिस्तेषामन्याश्रयविरहात् पृथगाश्रयाश्रयित्वासंभवात् । नित्यानां च पृथग्गतिमत्वं युतसिद्धिरित्यपि न विभुद्रव्येषु संभवति तद्धि. पृथग्गतिमत्त्वं द्विधाभिधीयते कैश्चित् । अन्यतरपृथग्गतिमत्वं उभयपृथग्गतिमत्त्वं चेति । तत्र परमाणुविभुद्रव्ययोरन्यतरपृथग्गतिमत्त्वं परमाणोरेव गतिमत्त्वात् विभुद्रव्यस्य तु निःक्रियत्वेन गतिमत्त्वाभावात्, परमाणूनां तु परस्परमुभयपृथग्गतिमत्त्वमुभयोरपि परमाण्वोः पृथक् पृथग्गतिमत्त्वसंभवात् । नचैतद्वितयमपि परस्पर विभुद्रव्यविशेषाणां संभवति । तथैकद्रव्याश्रयाणां गुणकर्मसामान्यानां च परस्परं पृथगाश्रयवृत्तेरभावात् युतसिद्धिः कथं नु स्यादिति वितर्कयंतु भवंतः । तेषां युतसिद्धयभावे चायुतसिद्धौ. सत्यां समवायोऽन्योन्यं प्रसज्येत स च नेष्टः तेषामाश्रयाश्रयिभावाभावात् । अत्र केचिद्विभुद्रध्यविशेषाणामन्योन्यं नित्यसंयोगमासंचक्षते तस्य कुतश्चिदजातत्वात् । नह्ययमन्यतरकर्मजो यथा स्थाणोः श्येनेन, विभूनां च. मूर्तेः, नाप्युभयकर्मजो यथा मेषयोर्मल्लयोर्वा । न च संयोगजो यथा द्वितंतुकवीरणयोः शरीराकाशयोर्वा । स्वावयवसंयोगपूर्वको ह्यवयविनः केनचित्संयोगः प्रसिद्धः । न चाकाशादीनामवयवाःसंति निरवयवत्वात् ततो न तत्संयोगपूर्वकः परस्परं संयोगो यतः संयोगजःस्यात् । प्राप्तिस्तु तेषां सर्वदाऽस्तीति तल्लक्षणसंयोगः, अज(नित्य एवाभ्युपगन्तव्यः। तत्सिद्धेश्च युतसिद्धिस्तेषां प्रतिज्ञातव्या । युतसिद्धानामेव संयोगस्य निश्चयात् ।।