________________
श्रीविद्यानंदिस्वामिविरचिता
नचैवं ये ये युतसिद्धास्तेषां सह्यहिमवदादीनामपि संयोगः प्रसज्यते तथान्याप्तेरभावात् । संयोगेन हि युतसिद्धत्वं व्याप्तं न युतसिद्धत्वेन संयोगः ततो यत्र यत्र संयोगस्तेषां तत्र तत्र युतसिद्धिरित्यनुमीयते कुंडबदरादिवत् । एवं चैकद्रव्याश्रयाणां गुणादीनां संयोगस्यासंभवान्न युतसिद्धिः तस्य गुणत्वेन द्रव्याश्रयत्वात् तदभावान्न युतसिद्धिः, नाप्ययुतसिद्धिरस्तीति समवायः प्राप्नुयात् , तस्येहेदं प्रत्ययलिंगत्वादाधार्याधारभूतपदार्थविषयत्वाच्च । नचैते परस्परमाधार्याधारभूताःस्वाश्रयेण द्रव्येण सहाधार्याधारभावात् । नचेहेदमिति प्रत्ययस्तत्राबाधितः संभवति यलिंगः संबंधः समवायो व्यवस्थाप्यते । न हीह रसे रूपं कर्मेतिचाबाधितः प्रत्ययोऽस्ति नापीह सामान्ये कर्म गुणो वेति न ततः समवायःस्यात् नहि यत्र यत्रायुतसिद्धिस्तत्र तत्र समवाय इति व्याप्तिरस्ति यत्र यत्र समवायस्तत्र तत्रायुतसिद्धिरितिव्याप्तेः संप्रत्ययादिति सर्व निरवयं परोक्तदूषणानवकाशात् इति त एवं वदन्तः शंकरादयोऽपि पर्यनुयोज्याः । कथं पृथगाश्रयाश्रयित्वं युतसिद्धिः नित्यानां च पृथम्गतिमत्वमिति युतसिद्धलक्षणद्वयमव्यापि न स्यात् तस्य विभुद्रव्येष्वनसंयोगेनानुमितायां युतसिद्धावभावात् । यदि पुनरेतल्लक्षणद्वयव्यतिक्रमेण संयोगहेतुर्युतसि. द्धिरिति लक्षणांतरमुररीक्रियते तदा कुंडबदरादिषु परमाण्वाकाशादिषु परमाणुष्वात्ममनस्सु विभुद्रव्येषु च परस्परं युतसिद्धर्भावाल्लक्षणस्याव्याप्त्यसंभवदोषपरिहारेऽपि कर्मापि युतसिद्धिं प्राप्नोति तस्यापि संयोगे हेतुत्वाददृष्टेश्वरकालादेरिवेति दुःशक्यातिव्याप्तिः परिहतु । संयोगस्यैव हेतुरित्यवधारणाददोषोऽयमिति चेन्न । एवमपि हिमवद्विध्यादीनां युतसिद्धेःसंयोगाहेतोरपि प्रसिद्धलक्षणस्याव्याप्तिप्रसङ्गात् । हेतुरेव संयोगस्येत्यवधारणादयमपि न दोष इति चेन्नैवमपि संयोगाहेतोर्युतसिद्धेः प्रसंगात् । संयोगस्यैव हेतुर्युतसिद्धिरित्यवधारणेऽपि विभागहेतुर्युतसिद्धिः