________________
आप्तपरीक्षा।
कथमिव व्यवस्थाप्यते । न च युतसिद्धानां संयोग एव विभागस्यापि भावात्। न संयोगोविभागहेतुरित्यपिवात । तस्य तद्विरोधिगुणत्वात् तद्विनाशहेतुत्वात्। संयुक्तविषयत्वाद्विभागस्य संयोगो हेतुरिति चेन्न तर्हि विभक्तविषयत्वात्संयोगस्य विभागो हेतुरस्तु । कयोश्चित्विभक्तयोरप्युभयकर्मणोऽन्यतरकर्मणोऽवयवसंयोगस्य चापाये संयोगापायान्न विभागः संयोगहेतुरितिचेत् तर्हि संयुक्तयोरप्युभयकर्मणोऽन्यतरकर्मणोऽवयवविभागस्य चापाये विभागस्याभावात्संयोगो विभागस्यापि हेतु भूत् । कथं च शश्वदविभक्तानां विभुद्रव्यविशेषाणामजः संयोगः सिध्यन् विभागहेतुको व्यवस्थाप्यते । तत्र युतसिद्धिर्विभागहेतुरपि कथमवस्थाप्यते इति चेत् सर्वस्य हेतोः कार्योत्पादनानियमादिति ब्रूमः । समर्थो हि हेतुःस्वकार्यमुत्पादयति नासमर्थः सहकारिकारणानपेक्षोऽतिप्रसंगात् । तेन यथा हिमवद्विभ्यादीनां युतसिद्धिविद्यमानापि न संयोगमुपजनयति सहकारिकारणस्य कर्मादेरभावात् तथा विभुद्रव्यविशेषाणां शाश्वतिका युतसिद्धिः सत्यपि न विभाग, सहकारिकारणस्याऽन्यतरकर्मादेरभावादिति संयोगहेतुं युतसिद्धिमभ्यनुजानंतो विभागहेतुमपि तामभ्यनुजानंतु सर्वथाविशेषाभावात् । तथा च संयोगस्यैव हेतुयुतसिद्धिरित्यपि लक्षणं न व्यवतिष्ठत एव लक्षणाभावे च न युतसिद्धिः। नापि युतसिद्धयमावलक्षणा स्यादयुतसिद्धिरिति युतसिद्धययुतसिद्धिद्वितयापाये व्याघातो दुरुत्तरः स्यात् सर्वत्र संयोगसमवाययोरभावात् । संसर्गहानेः सकलार्थहानिःस्यादित्यभिप्रायः । संयोगापाये तावदात्मांतःकरणासंयोगाद् बुद्धयादिगुणोत्पत्तिर्न भवेत् तदभावे च आत्मनोव्यवस्थापनोपायापायादात्मतत्वहानिः । एतेन भेरीदंडाद्याकाशसंयोगाभावाच्छब्दस्यानुत्पत्तेराकाशव्यवस्थापनोपायासत्वादाकाशहानिरुक्ता सर्वत्रावयवसंयोगाभावात्तद्विभागस्याप्यनुपपत्तेस्तन्निमित्तस्यापि शब्दस्याभा