________________
श्रीविद्यानंदिस्वामिविरचिता
६२
वात् । एतेन परमाणुसंयोगाभावाद्द्द्व्यणुकादिप्रक्रमेणावयविनोऽनुत्पत्तेस्तत्र परापरादिप्रत्ययापायात् इदमतः पूर्वेणेत्यादिप्रत्ययापायाच्च न कालो दिक् च व्यवतिष्ठत इत्युक्तं । तथा समवायासच्चे सकल समवायिनामभावान्न मनः परमाणवोऽपि संभाव्यंते इति सकलद्रव्यपदार्थ ह । नेस्तदाश्रयगुणकर्मसामान्यविशेषपदार्थहानिरपीति सकलपदार्थव्याघातात् दुरुत्तरो वैशेषिकमतस्य व्याघातःस्यात् । तं परिजिहीर्षता युतसिद्धिः कुतश्चिद्वयवस्थापनीया । तत्र -
युतप्रत्ययहेतुत्वाद्युतसिद्धिरितीरणे ।
विभुद्रव्यगुणादीनां युतसिद्धिः समागता ॥ ४८ ॥
यथैव हि कुंड बदरादिषु युतप्रत्यय उत्पद्यते कुंडादिभ्यो बदरादयो युता इति तथा विभुद्रव्यविशेषेषु प्रकृतेषु गुणगुणिषु क्रियाक्रियावत्सु सामान्य- तद्वत्सु विशेषतद्वत्सु चावयवावयविषु च युतप्रत्ययो भवत्येवेति युतसिद्धिः समागता सर्वत्रायुतप्रत्ययस्याभावात् । देशभेदाभावात्तत्र न युतप्रत्यय इति चेन्न । वाताऽऽतपादिषु युतप्रत्ययानुत्पत्तिप्रसंगात् । तेषां स्वावयवेषु भिन्नेषु देशेषु वृत्तेस्तत्र युतप्रत्यय इति चेत् किमेवं तंतुपटादिषु पटरूपादिषु च युतप्रत्ययः प्रतिषिध्यते स्वाश्रयेषु भिन्नेषु वृत्तेरविशेषात् तथा च न तेषामयुतसिद्धिः । ततो न युतप्रत्ययहेतुत्वेन युतसिद्धिर्व्यवतिष्ठते । तदन्यवस्थानाच्च किं स्यादित्याह
ततो नायुतसिद्धिः स्यादित्यसिद्धं विशेषणं । हेतोर्विपक्षतस्तावद्यवच्छेदं न साधेयत् ॥ ४९ ॥ सिद्धेऽपि समवायस्य समवायिषु दर्शनात् । इदमिति संवित्तेः साधनं व्यभिचारि तत् ॥ ५० ॥