________________
आप्तपरीक्षा। .. । तदेवमयुतसिद्धरसंभवे सत्यामयुतसिद्धाविति विशेषणं तावदसिद्धविपक्षादसमवायात्संयोगादेर्व्यवच्छेदं न साधयेत् संयोगादिना व्यभिचारस्याबाधितेहेदप्रत्ययस्य हेतोर्दुःपरिहारत्वात् केवलमभ्युपगम्यायुतसिद्धत्वं विशेषणं हेतोरनैकान्तिकत्वमुच्यते । सिद्धेऽपि विशेषणे साधनस्येह समधायिषु समवायइत्ययुतसिद्धबाधितहेदंप्रत्ययेन साधनमेतत् व्यभिचारि कथ्यते । नह्ययमयुतसिद्धबाधितेहेदं प्रत्ययः समवायहेतुक इति । नन्वबाधितत्वविशेषणमसिद्धमिति परमतमाशंक्याह-- समवायांन्तराद्वृत्तौ समवायस्य तत्त्वतः । समवायिषु तस्यापि परस्मादित्यनिष्ठितिः॥५१॥ तद्वाधास्तीत्यबाधत्वं नाम नेह विशेषणं । हेतोःसिद्धमनेकांतो यतोऽनेनेति ये विदुः ॥ ५२ ॥ तेषामिहेति विज्ञानाद्विशेषणविशेष्यता । समवायस्य तद्वत्सु तत एव न सिध्यति ॥ ५३ ।। विशेषणविशेष्यत्वसंबंधोऽप्यन्यतो यदि। स्वसंबंधिषु वर्तेत तदा बाधाऽनवस्थितिः ॥ ५४ ॥
इह समवायिषु समवाय इति समवायसमवायिनोरयुतसिद्धत्वे समवायस्य पृथगाश्रयाभावात्प्रसिद्धे सतीहेदमिति संवित्तरबाधितत्वविशेषणस्याभावात् न तया साधन व्यभिचरेत्, तत्रानवस्थाया बाधिकायासद्भावात् । तथाहि-समवायिषु समवायस्य वृत्तिः समवायांतराद्यदीष्यते तदा तस्यापि समवायांतरस्य समवायसमवायिषु स्वसंबंधिषु वृत्तिरपरापरसमवायरूपैषितव्या । तथाचापरापरसमवायपरिकल्पनायामनिष्ठिति स्यात् । तथैक एव समवायस्तत्त्वं भावेन व्याख्यातमिति सिद्धांतस्य चानिष्ठितिः सैवेहेदमिति प्रत्ययस्य बाधा ततो नाबाधत्वं नाम विशेषणं हेतोर्येनाऽ