________________
६४
श्रीविद्यानंदिस्वामिविरचिता
नेकांतः स्यादिति ये वदति तेषां विशेषणविशेष्यत्वसंबंधोऽपि समवायिषु इति प्रत्ययान्न सिध्येदनवस्थायाः सद्भावात् विशेषणविशेष्यभावो हि समवायसमवायिनां परैरिष्टः समवायस्य विशेषणत्वात् समवायिनां विशेष्यत्वात् अन्यथा समवायप्रतिनियमानुपपत्तेः । सच समवायसम - वायिभ्योऽर्थान्तरमेव न पुनरनर्थान्तरं समवायस्यापि समवायिभ्यो ऽनर्थौतरापत्तेः सचार्थांतरभूतो विशेषणविशेष्यभावः संबंधः स्वसंबंधिषु परस्मादेव विशेषणविशेष्यभावात्प्रतिनियतः स्यात् नान्यथा तथाचापरापरविशेषणः विशेष्यभावपरिकल्पनायामनवस्था बाधा तदवस्यैव ततस्तया सबाधादिहेदमिति प्रत्ययाद्विशेषणविशेष्यभावोऽपि न सिध्येदिति कुतः समवायप्रतिनियमः क्वचिदेव समवायिषु परेषां स्यात् ।
विशेषणविशेष्यत्वप्रत्यायादवगम्यते । विशेषणविशेष्यत्वमित्यप्येतेन दूषितं ॥ ५५ ॥
यथेह समवायिषु समवाय इतीहेदप्रत्ययादनवस्थया बाध्यमानात् समवायवद्विशेषणविशेष्यभावो न सिध्येदिति तथा विशेषणविशेष्यत्वप्रत्ययादप्यनवस्थया बाध्यमानत्वाविशेषात् ततोऽनेने हेदप्रत्ययदूषणेन विशेषणविशेष्यत्वप्रत्ययोऽपि दषित एव तेनैव च तद्दूषणेन विशेषणविशेष्यत्वं सर्वत्र दूषितमवगम्यतां । अत्रानवस्थापरिहारं परेषामाशंक्य निराचष्टे ।
तस्यानंत्यात्प्रपतॄणामाकांक्षाक्षयतोऽपि वा । न दोष इति चेदेवं समवायादिनापि किं ॥ ५६ ॥ गुणादिद्रव्ययोर्भिन्नद्रव्ययोश्च परस्परं । विशेषणविशेष्यत्व संबंधोऽस्तु निरंकुशः ॥ ५७ ॥