SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ pop-50 NEPAKES नमः सिद्धेभ्यः। आचार्यप्रवरश्रीविद्यानंदिस्वामिविरचिता आप्तपरीक्षा। Oreviocoप्रबुद्धाशेषतत्त्वार्थबोधदीधितिमालिने । नमः श्रीजिनचंद्राय मोहध्वांतप्रभेदिने ॥१॥ कस्मात्पुनः परमेष्ठिनः स्तोत्रं शास्त्रादौ शास्त्रकाराः प्राहुरित्यभिधीयतेश्रेयोमार्गस्य संसिद्धिः प्रसादात्परमेष्ठिनः। इत्याहुस्तद्गुणस्तोत्रं शास्त्रादौ मुनिपुंगवाः॥२॥ . श्रेयो निःश्रेयसं परमपरं च । तत्र परं सकलकर्मविप्रमोक्षलक्षणं बंधहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्ष इति वचनात् । ततोऽपरमाहत्यलक्षणं घातिकर्मक्षयादनंतचतुष्टयस्वरूपलाभस्यापरनिःश्रेयसत्वात् । न चाऽत्र कस्यचिदात्मविशेषस्य कृत्स्नकर्मविप्रमोक्षोऽसिद्धः साधकप्रमाणसद्भावात् । तथाहि, कश्चिदात्मविशेषः कृत्स्नकर्मभिर्विप्रमुच्यते कृत्स्नबंधहेत्वभावनिर्जरावत्त्वात् । यस्तु न कृत्स्नकर्मभिर्विप्रमुच्यते स न कृत्स्नबंधहेत्वभावनिर्जरावान् , यथा संसारी, कृत्स्नबंधहेत्वभावनिर्जरावांश्च कश्चिदात्मविशेषस्तस्मात्कृत्स्नकर्मभिर्विप्रमुच्यते । “ ननु बंध एवात्मनोऽसिद्धस्तद्धेतुश्चेति कुतो बंधहेत्वभाववत्त्वं, प्रतिषेधम्य
SR No.022436
Book TitleAaptpariksha
Original Sutra AuthorN/A
AuthorVidyanandswami
PublisherJain Sahitya Prasarak Karyalay
Publication Year
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy