________________
श्रीविद्यानंदिस्वामिविरचिता
विधिपूर्वकत्वात् । बंधाभावे च कस्य निर्जरा, बंधफलानुभवनं हि निर्जरा, बंधाभावे तु कुतस्तत्फलानुभवनमतः कृत्स्नकर्मनिर्जरावत्त्वमप्यसिद्धं । न चासिद्धं साधनं साध्यसाधनायालमिति।" कश्चित् , सोऽप्यनालोचिततत्त्वः प्रमाणतो बंधस्य प्रसिद्धेः । तथा हि, विवादाध्यासितः संसारी बंधवान् परतंत्रत्वादालानस्तंभागतहस्तिवत् । परतंत्रोऽसौ हीनस्थानपरिग्रहवत्त्वात् कामोद्रेकपरतंत्रवेश्यागृहपरिग्रहवच्छ्रोत्रियब्राह्मणवत् । हीनस्थानं हि शरीरं तत्परिग्रहवांश्च संसारी प्रसिद्ध एव । कथं पुनः शरीरं हीनस्थानमात्मन इत्युच्यते । हीनस्थानं शरीरमात्मनो दुःखहेतुत्वात् कस्यचित्कारागृहवत् । ननु देवशरीरस्य दुःखहेतुत्वाभावात् पक्षाव्यापको हेतुरिति चेत् न, तस्यापि मरणे दुःखहेतुत्वसिद्धेः पक्षव्यापकत्वव्यवस्थानात् । तदेवं संक्षेपतो बंधस्य प्रसिद्धौ तद्धेतुरपि सिद्धस्तस्याहेतुकत्वे नित्यत्वप्रसंगात् । सतो हेतुरहितस्य नित्यत्वव्यवस्थितेः 'सदकारणवन्नित्यमिति' परैरभिधानात् । तद्धेतुश्च मिथ्यादर्शनाविरतिप्रमादकषाययोगविकल्पात्पंचविधः स्यात् । बंधो हि संक्षेपतो द्वेधा भावबंधो द्रव्यबन्धश्चेति । तत्र भावबंधः क्रोधाद्यात्मकस्तस्य हेतुर्मिथ्यादर्शनं, तद्भावे मावादभावे चाभावात् । क्वचिदक्रोधादिविषये हि क्रोधादिविषयत्वश्रद्धानं मिथ्यादर्शनं तस्य विपरीताभिनिवेशलक्षणस्य सकलास्तिकप्रसिद्धत्वात् तस्य च सद्भावे बहिरंगस्य सत्यंतरंगे द्रव्यक्रोधादिबंधे भावबंधस्य सद्भावः तदभावे चासद्भावः सिद्ध एवेति मिथ्यादर्शनहेतुको भावबंधः । तद्वदविरतिहेतुकश्च समुत्पन्नसम्यग्दर्शनस्याऽपि कस्यचिदप्रकृष्टो भावबंधः सत्यामविरतौ प्रतीयते एव । ततोऽप्यप्रकृष्टो भावबंधः प्रमादहेतुकः स्यादविरत्यमावेऽपि कस्यचिद्विरतस्य सति प्रमादे तदुपलब्धेः । ततोऽप्यप्रकृष्टः कषायहेतुकः सम्यग्दृष्टेविरतस्याऽप्रमत्तस्याऽपि कषायसद्भावे भावात् ।