________________
श्रीविद्यानंदिस्वामिविरचिता
mmmmmmmmmmmmmmmmmmmmmmmmmmm
परैरुपेयते तस्मान्न सर्वविन्नष्टमोह इति साक्षान्मोक्षमार्गोपदेशस्य कर्ता न भवेत् निरस्तं च पूर्व विस्तरतस्तस्य शश्वत्कर्मभिरस्पृष्टत्वं पुरुषविशेषस्येत्यलं विस्तरेण प्रागुक्तार्थस्यैवात्रोपसंहारात् । यथा चेश्वरस्य मोक्षमार्गोपदेशित्वं न प्रतिष्ठामियति तथा कपिलस्यापीत्यतिदिश्यते ।
एतेनैव प्रतिव्यूढः कपिलोऽप्युपदेशकः । ज्ञानादर्थांतरत्वस्याऽविशेषात्सर्वथा स्वतः॥ ७७ ॥ ज्ञानसंसर्गतो ज्ञत्वमज्ञस्यापि न तत्त्वतः। व्योमवचेतनस्यापि नोपपद्येत मुक्तवत् ॥ ७८॥
“ कपिल एव मोक्षमार्गस्योपदेशकः क्लेशकर्मविपाकाशयानां भेत्ता रजस्तमसोस्तिरस्करणात् । समस्ततत्त्वज्ञानवैराग्यसंपन्नो धर्मविशेषैश्वर्ययोगी च प्रकृष्टसत्त्वस्याविर्भावात् विशिष्टदेहत्वाच्च । न पुनरीश्वरस्तस्याकाशस्येवाऽशरीरस्य ज्ञानेच्छाक्रियाशक्त्यसंभवात् मुक्तात्मवत् । सदेहस्यापि सदा क्लेशकर्मविपाकाशयैरपरामृष्टत्वविरोधात् । धर्मविशेषसद्भावे च तस्य तत्साधनसमाधिविशेषस्यावश्यंभावात् तन्निमित्तस्यापि ध्यानधारणाप्रत्ययाहारप्राणायामासनयमनियमलक्षणस्य योगांगस्याभ्युपगमनीयत्वात् । अन्यथा समाधिविशेषासिद्धधर्मविशेषानुत्पत्तेर्ज्ञानाद्यतिशयलक्षणैश्वर्यायोगादनीश्वरत्वप्रसंगात् । सत्त्वप्रकर्षयोगित्वे च कस्यचित्सदामुक्तस्यानुपायसिद्धस्य साधकप्रमाणाभावादिति" निरीश्वरसांख्यवादिनः प्रचक्षते । तेषां कपिलोऽपि तीर्थकरत्वेनाभिप्रेतः प्रकृतेनैवेश्वरस्य मोक्षमार्गोपदेशित्वनिराकरणेनैव प्रतिव्यूढः प्रतिपत्तव्यः, स्वतस्तस्यापि ज्ञानादीतरत्वाविशेषात्सर्वज्ञत्वायोगात् । सर्वार्थज्ञानसंसर्गात्तस्यसर्वज्ञत्वपरिकल्पनमपि न युक्तमाकाशादेरपि सर्वज्ञत्वप्रसंगात् तथाविधज्ञानपरिणामाश्रयप्रधानसंसर्गस्याविशेषात् । तदविशेषेऽपि कपिल एव