________________
आप्तपरीक्षा ।
सर्वज्ञश्चेतनत्वान्न पुनराकाशादिरित्यपि न युज्यते । तेषां ( कपिलानांमते ) मुक्तात्मनश्चेनत्वेऽपि ज्ञानसंसर्गतः सर्वज्ञत्वानभ्युपगमात् । सबीजसमाधिसंप्रज्ञातयोगकालेऽपि सर्वज्ञत्वविरोधात् । स्यान्मतं, न मुक्तस्य ज्ञानसंसर्गः संभवति तस्य संप्रज्ञातयोगकाले एव विनाशात् । " तदा द्रष्टुः ( पुरुषस्य ) स्वरूपेऽवस्थानमिति " वचनात् । मुक्तस्य तु संस्कारविशेषस्यापि विनाशात् । असंप्रज्ञातस्यैव संस्कारविशेषतावचनात् । चरितार्थेन ज्ञानादिपरिणामशन्येन प्रधानेन संसर्गमात्रेऽपि तन्मुक्तात्मानं प्रति तस्य नष्टत्वात् संसार्यात्मानमेव प्रत्यनष्टत्ववचनात् । न कपिलस्य चेतनस्य स्वरूपस्य ज्ञानसंसर्गात्सर्वज्ञत्वाभावसाधने मुक्तात्मोदाहरणं तत्र ज्ञानसंसर्गस्यासंभवादिति । तदप्यसारं । प्रधानस्य सर्वगतस्यानंतस्य संसर्गविशेषानुपपत्तेः । कपिलेन सह तस्य संसर्गे सर्वात्मना संसर्गप्रसंगात् कस्यचिन्मुक्तिविरोधान्मुक्तात्मनो वा प्रधानेनासंसर्गे कपिलस्यापि तेनासंसर्गप्रसक्तेः । अन्यथा विरुद्धधर्माध्यासात्प्रधानभेदोपपत्तेः । ननु च प्रधानमेकं निरवयवं सर्वगतं न केनचिदात्मना संस्पृष्टमपरेणासंस्पृष्टमिति विरुद्धधर्माऽध्यासीष्यते येन तद्भेदोपपत्तेः । किं तर्हि ? सर्वदा सर्वात्मसंसर्गि केवलं मुक्तात्मानं प्रतिनष्टमपीतरात्मानं प्रत्यनष्टं निवृत्ताधिकारत्वात् प्रवृत्ताधिकारत्वाच्चेति चेन्न विरुद्धधर्माध्यासस्य तदवस्थत्वात् प्रधानस्यभेदानिवृत्तेः । नोकमेव निवृत्ताधिकारित्वप्रवृत्ताधिकारत्वयोर्युगपदधिकरणंयुक्तं नष्टत्वानष्टत्वयोरिव विरोधात् । विषय. भेदान्न तयोर्विरोधः कश्चित्क्वचित् पितृत्वपुत्रत्वधर्मवत् तयोरेकविषययोरेव विरोधात् । निवृत्ताधिकारत्वं हि मुक्तपुरुषविषयं प्रवृत्ताधिकारत्वं पुनरमुक्तपुरुषविषयमिति भिन्न पुरुषापेक्षया भिन्नविषयत्वं । नष्टत्वानष्टत्वधर्मयोरपि मुक्तात्मानमेव प्रति विरोधः स्यादमुकात्मानं प्रत्येव वा न