________________
८४
श्रीविद्यानंदिस्वामिविरचिता
चैव मुक्तात्मापेक्षया प्रधानस्य नष्टधर्मत्ववचनात् अमुक्तापेक्षया चानष्टत्वप्रतिज्ञानादिति कश्चित्सोऽपि न विरुद्धधर्माध्यासान्मुच्यते प्रधानस्यैकरूपत्वात् येनैव हि रूपेण प्रधानं मुक्तात्मानं प्रतिचरिताधिकार नष्टं च प्रतिज्ञायते तेनैवानवसिताधिकारमनष्टममुक्तात्मानं प्रतीति कथं न विरोधः प्रसिद्धयेत् । यदि पुनः रूपांतरेण तथेष्यते तदा न प्रधानमेकरूपं स्यात् रूपद्वयस्य सिद्धेः । तथाचैकमनेकरूपं प्रधानं सिध्येत् सर्वमनेकांतात्मकं वस्तु साधयेत् । स्यादाकूतं न परमार्थतः प्रधानं विरुद्धयोधर्मयोरधिकरणं तयोः शब्दज्ञानानुपातिना वस्तुशून्येन विकल्पेनाध्यारोपितत्वात्पारमार्थिकत्वे धर्मयोरपि धर्मातरपरिकल्पनायामनवस्थानात् । सुदूरमपि गत्वा कस्यचिदारोपितधर्माभ्युपगमे प्रधानस्याप्यारोपितावेव नष्टत्वानष्टत्वधर्मों स्यातामवसितानवसिताधिकारत्वधर्मी च तदपेक्षानिमित्तं स्वरूपद्वयं च ततोनैकमनेकरूपं प्रधानं सिध्येत् यतः सर्व वस्त्वेकानेकात्मकं साधयेदिति । तदपि न विचारसहं । मुक्तामुक्तत्वयोरपि पुंसामपारमार्थिकत्वप्रसंगात् । सत्यमेतत् न तत्त्वतः पुरुषस्य मुक्तत्वं संसारित्वं वा धर्मोऽस्ति प्रधानस्यैव संसारित्वप्रसिद्धेः । तस्यैव च मुक्तिकारणतत्त्वज्ञानवैराग्यपरिणामान्मुक्तत्वोपपत्तेः । तदेवं मुक्तेः पूर्व निःश्रेयसमार्गस्योपदेशकं प्रधानमिति परमतमनूद्य दूषयन्नाह ।
प्रधानं ज्ञत्वतो मोक्षमार्गस्याऽस्तूपदेशकं । तस्यैव विश्ववेदित्वाद्धेतृत्वात्कर्मभूभृतां ॥ ७९ ॥ इत्यसंभाव्यमेवास्याऽचेतनत्वात्पटादिवत् । तदसंभवतो नूनमन्यथा निष्फलः पुमान् ॥ ८० ॥ भोक्ताऽऽत्मा चेत्स एवास्तु कर्ता तदविरोधतः। विरोधे तु तयोर्मोक्तुः स्याद्भुजौ कर्तृता कथं ॥ ८१ ॥