________________
आप्तपरीक्षा।
प्रधानं मोक्षमार्गस्य प्रणेतृ स्तूयते पुमान् । मुमुक्षुभिरितिबूयात्कोऽन्योऽकिंचित्करात्मनः ॥८॥
"प्रधानमेवास्तु मोक्षमार्गस्योपदेशकं ज्ञत्वात् । यस्तु न मोक्षमार्गस्योपदेशकः स न ज्ञो दृष्टो यथा घटादिः मुक्तात्माच, ज्ञं च प्रधानं तस्मान्मोक्षमार्गस्योपदेशकं । न च कपिलादिपुरुषसंसर्गभाजः प्रधानस्य ज्ञत्वमसिद्धं विश्ववेदित्वात् । यस्तु न ज्ञः स न विश्ववेदी यथा घटादिः । विश्ववेदि च प्रधानं ततो ज्ञमेव च, विश्ववेदि च तत्सिद्धं सकलकर्मभूभृद्भतृत्वात् । तथाहि-कपिलात्मना संस्पृष्टं प्रधानं विश्ववेदि कर्मराशिविनाशित्वात् । यत्तु न विश्ववेदि तन्न कर्मराशिविनाशीष्टं दृष्टं वा यथा व्योमादि । कर्मराशिविनाशि च प्रधानं तस्माद्विश्ववेदि । न वाऽस्य कर्मराशिविनाशित्वमसिद्धं रजस्तमोविवर्ताशुद्धकर्मनिकरस्य संप्रज्ञातयोगबलात्प्रध्वंससिद्धेः सत्त्वप्रकर्षाच्च संप्रज्ञातयोगघटनात् । तत्र सर्वज्ञवादिनां विवादाभावात् इति सांख्यानां दर्शनं " तदप्यसंभाव्यमेव । स्वयमेव प्रधानस्याचेतनत्वाभ्युपगमात् । तथाहि-न प्रधानं कर्मराशिविनाशि स्वयमचेतनत्वात् । यत्स्वयमचेतनं तन्न कर्मराशिविनाशि दृष्टं यथा वस्त्रादि । स्वयमचेतनं च प्रधानं तस्मान्न कर्मराशिविनाशि । चेतनसंसर्गात्प्रधानस्य चेतनत्वोपगमादसिद्धसाधनमिति चेन्न, स्वयमिति विशेषणात् । स्वयं हि प्रधानमचेतनमेव चेतनसंसर्गात्तपचारादेव तच्चेतनमुच्यते स्वरूपतः पुरुषस्यैव चेतनत्वोपगमात् ५ चैतन्यं पुरुषस्य स्वरूपमिति" वचनात् । ततः सिद्धमेवेदं साधनं कर्मराशिविनाशित्वाभावं साधयति तस्माच्च विश्ववेदित्वाभावः कर्मराशिविनाशित्वाभागे कस्यचिद्विश्ववेदित्वविरोधात् । ततश्च न प्रधानस्य ज्ञत्वं स्वयमचेतनस्य ज्ञत्वानुपलब्धेः। नचाज्ञस्य मोक्षमार्गस्योपदेशकत्वं संभाव्यत इति प्रधानस्य