________________
आप्तपरीक्षा।
समवायपरिकल्पनया, ज्ञानपरिणामपरिणतो हि ज्ञः प्रतिपादयितुं शक्यो नार्थातरभूतज्ञानसमवायेन ततो ज्ञानसमवायवानेवेह सिध्येत् न पुनज्ञाता। नह्यांतरभूते ज्ञाने समुत्पन्ने ज्ञाता, स्मरणे स्मर्ता, भोगे च भोक्तेति तत्प्रातीतिकं दर्शनं तदात्मना परिणतस्यैव तथान्यपदेश प्रसिद्धः। प्रतीतिबलाद्धि. तत्त्वं व्यवस्थापयंतो यद्यथा निर्बाध प्रतीयंति तथैव व्यवहरंतीति प्रेक्षापूर्वकारिणः स्युनान्यथा। ततो महेश्वरोऽपि ज्ञाता व्यवहर्तव्यो ज्ञातृस्वरूपेण प्रमाणतः प्रतीयमानत्वात् । यद्येन स्वरूपेण प्रमाणतः प्रतीयमानं तत्तथा व्यवहर्तव्यं, यथा सामान्यादिस्वरूपेण प्रमाणतः प्रतीयमानं सामान्यादि । ज्ञातृस्वरूपेण प्रमाणतः प्रतीयमानश्च महेश्वरस्ततोज्ञातेति व्यवहर्तव्य इति । तदर्थमर्थांतरभूतज्ञानसमवायपरिकल्पनमनर्थकमेव तदेवं प्रमाण बलास्वार्थव्यवसायात्मके ज्ञाने प्रसिद्ध महेश्वरस्य ततो भेदैकांतनिराकरणे च कथंचित्स्वार्थव्यवसायात्मकज्ञानादभेदोऽभ्युपगंतव्यः कथंचित्तादात्म्यस्यैव समवायस्य व्यवस्थापनात् । तथाच नाम्नि विवादो नार्थे जिनेश्वरस्यैव महेश्वर इति नामकरणात्कथंचित्स्वार्थव्यवसायात्मज्ञानतादात्म्यमृच्छतः पुरुषविशेषस्य जिनेश्वरत्वनिश्चयात् । तथा च स एव हि मोक्षमार्गस्यप्रणेता व्यवतिष्ठते सदेहत्वे धर्मविशेषत्वे च सति सर्वविन्नष्टमोहत्वात् यस्तु न मोक्षमार्गस्य मुख्यः प्रणेता स न सदेहो यथा मुक्तात्मा धर्मविशेषभाग्वा यथांऽतकृत्केवली । नापिअसर्वविन्नष्टमोहो यथा रथ्यापुरुषः। सदेहत्वे धर्मविशेषत्वे च सति सर्वविन्नष्टमाहश्च जिनेश्वरस्तस्मान्मोक्षमार्गस्य प्रणेता व्यवतिष्ठत एव । स्वार्थव्यवसायात्मकज्ञानात् सर्वथाऽर्थातरभतस्तु शिवः सदेहो निर्देहो वा न मोक्षमागोदेशस्य कर्ता युज्यते कर्मभूभृतामभेतृत्वात् । यो यः कर्मभूमृतामभेत्ता स स न सर्वविन्नष्टमोहो यथाऽऽकाशादिरभन्योवा संसारी चात्मा, कर्मभूभृतामभेत्ता च शिवः