________________
श्रीविद्यानंदिस्वामिविरचिता
तदप्यनुपपन्नं । तथोपचारादेव सत्प्रत्ययप्रसंगात् पुरुषे यष्टिसंबंधाद्यष्टि रिति प्रत्ययवत् । यदि पुनर्यष्टिपुरुषयोः संयोगात्पुरुषो यष्टिरिति ज्ञानमुपचरितं युक्तं न पुनर्द्रव्यादौ सदिति ज्ञानं तत्र सत्वस्य समवायादिति मतं, तदवयवेष्ववयविनः समवायादवयविव्यपदेशः स्यात् न पुनरवयवव्यपदेशः । द्रव्ये च गुणस्य समवायाद्गुणव्यपदेशोऽस्तु क्रियासम - वायात्क्रियान्यपदेशस्तथा च न कदाचिदवयविष्ववयविप्रत्ययः गुणिनि गुणिप्रत्ययः क्रियावतिक्रियावत्प्रत्ययश्चोपपद्येतेति महान् व्याघातः पदार्थोंतरभूतसत्तासमवायवादिनामनुषज्येत तदेवं स्वतः सत् एवेश्वरस्य सत्वसमवायोऽभ्युपगंतव्यः कथंचित्सदात्मतया परिणतस्यैव सत्वसमवायस्योपपत्तेः । अन्यथा प्रमाणेन बाधनात् स्वयं सतः सत्वसमवायेऽस्य च प्रमाणप्रसिद्धेः । स्वयं द्रव्यात्मना परिणतस्य द्रव्यत्वसमवायः । स्वयमात्मरूपतया परिणतस्यात्मत्वसमवायः । स्वयं ज्ञानात्मना परिणतस्य महेश्वरस्य ज्ञानसमवाय इति युक्तमुत्पश्यामः स्वयं नीलात्मनोनीलसमवायवत् न हिकश्चिदतथापरिणतस्तथात्वसमवाय भागुपलभ्यतेऽतिप्रसंगात् ततः प्रमाणबलान्महेश्वरस्य सत्वद्रव्यत्वात्मत्ववत् स्वयं ज्ञत्वप्रसिद्धेर्ज्ञानस्य समवायात् तस्य ज्ञत्वपरिकल्पनं न कंचिदर्थं पुष्णाति । ज्ञव्यवहारं पुष्णातीति चेन्न, ज्ञे प्रसिद्धे ज्ञव्यवहारस्यापि स्वतः प्रसिद्धेः । यस्य हि योऽर्थः प्रसिद्धोः स तत्र तद्व्यवहारं प्रवर्तयन्नुपलब्धो यथा प्रसिद्धाकाशात्माआकाशे तद्व्यवहारप्रसिद्धो, ज्ञश्च कश्चित्तस्मात् ज्ञे तद्वयवहारं प्रवर्तयति । यदि तु प्रसिद्धेऽपि ज्ञे ज्ञत्वसमवायपरिकल्पनमज्ञव्यवच्छेदार्थमिष्यते तदाप्रसिद्धेऽप्याकाशेऽनाकाशव्यवच्छेदार्थमाकाशत्वसमवायपरिकल्पनमिष्यतां । तस्यैकत्वादाकाशत्वासंभवात्स्वरूप निश्चयादवाकाशव्यवहारप्रवृत्तौ, ज्ञेऽपीश्वरे स्वरूपनिश्चयादेव ज्ञव्यवहारोऽस्तु किं तत्र ज्ञान
८०