________________
आप्तपरीक्षा ।
७९
दिष्वपि तदुपचरितमस्तु मुख्ये बाधकसद्भावात् सर्वत्रोपचारम्य मुख्यबा - धक सद्भावादेवोपपत्तेः । प्रागभावादिष्वपि मुख्यास्तित्वबाधकोपपत्तेरुपचारत एवास्तित्वव्यवहारसिद्धेरिति तेषां द्रव्यादिष्वपि सदितिज्ञानं सत्तानिबंधनं कुतः सिध्येत् तस्यापि बाधकसद्भावात् । तेषां स्वरूपतोऽसत्वे सत्वे वा सत्तासंबंधानुपपत्तेः । स्वरूपेणासत्सु द्रव्यादिषु सत्तासंबंधेऽतिप्रसंगस्य बाधकस्य प्रतिपादनात् । स्वरूपतः सत्सु सत्तासंबंधे अनवस्थानस्य बाधकस्योपनिपातात् सत्ता संबंधेनापि सत्सु सत्वं पुनः सत्तासंबन्धपरिकल्पनप्रसंगात् तस्य वैयर्थ्यात् अपरिकल्पने स्वरूपतः सत्स्वपि तत एव सत्ता संबंधपरिकल्पनं माभूत् । ननु स्वरूपतः सत्वादसाधारणात् सत्सदित्यनुवृत्तिप्रत्ययस्यानुपपत्तेः द्रव्यादिषु तन्निबंधनस्य साधारणसत्तासंबंधस्य परिकल्पनं न व्यर्थमिति चेन्न स्वरूपसत्वादेव सदृशात्सदिति प्रत्ययस्योपपत्तेः । सदृशेT तरपरिणाम सामर्थ्यादेव द्रव्यादीनां साधारणासाधारणसत्वनिबंधनस्य सत्प्रत्ययस्यघटनात् । सर्वथाऽर्थंतरभूत सत्तासंबंधसामर्थ्यात्सदिति प्रत्ययस्य साधारणस्यायोगात् । सत्तावद्द्रव्यं सत्तावान्गुणः सत्तावत्कर्मेति सत्तासंबंधस्य प्रत्ययस्य प्रसंगात् न पुनः सद्द्रव्यं सन् गुणः सत्कर्मेति प्रत्ययः स्यात् । नहि घंटा संबंधाद्द्भवि घंटेति ज्ञानमनुभूयते घंटावान्निति ज्ञानस्य तत्र प्रतीतेः । यष्टिसंबंधात्पुरुषोयष्टिरिति प्रत्ययदर्शनात्तु सत्तासंबंधाद्रव्यादिषु सत्तेतिप्रत्ययः स्यात् भेदेऽभेदोपचारात् न पुनः सदिति प्रत्ययस्तथाचोपचारात् द्रव्यादीनां सत्ताव्यपदेशो न पुनः परमार्थतः सिध्येत् । स्यान्मतं सत्तासामान्यवाचकस्यास्य सत्ताशब्दस्येव सच्छद्वस्यापि सद्भावात्संबंधात्संति द्रव्यगुणकर्माणीति व्यपदिश्यते भावस्य भाववदभिधायिनापि शब्देनाभिधानप्रसिद्धेः विषाणी ककुद्मान् प्रांतेवालधिरिति गोत्वलिंगमित्यादिवत् विषाण्यादिवाचिना शब्देन विषाणित्वादेर्भावस्याभिधानादिति ।