SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७८ श्रीविद्यानंदिस्वामिविरचिता 'एव तथापि क्वचिदेव सत्वसमवायसिद्धौ नियमहेतुर्वक्तव्यः । सत्सदितिज्ञानमबाधितं नियमहेतुरितिचेन्न, तस्य सामान्यादिष्वपि भावात् । यथैव हि द्रव्यं सत् गुणःसन् कर्म सदिति ज्ञानमबाधितमुत्पद्यते तथा सामान्यमस्ति विशेषोऽस्ति समवायोऽस्ति प्रागभावादयः संतीति ज्ञानमप्यवाधितमवेति सामान्यादिप्रागभावादितत्वास्तित्वं अन्यथा तद्वादिभिः कथमभ्युपगम्यते । तत्रास्तित्वधर्मसद्भावादस्तीति ज्ञानं न पुनः सत्तासंबंधादनवस्थाप्रसंगात् सामान्ये हि सामान्यान्तरं परिकल्पनायामनवस्था स्यात् परापर सामान्यकल्पनात् । विशेषेषु च सामान्योपगमे सामान्यज्ञानात् विशेषानुपलंभादुभयतद्विशेषस्मरणाच्च कस्यचिदवश्यंभाविनि संशये तब्यवच्छेदार्थ विशेषांतरकल्पनानुषंगः पुनस्तत्रापि सामान्यकल्पनेऽवश्यंभावी संशयः सति तस्मिंस्तद्वयवच्छेदाय तद्विशेषांतरकल्पनायामनवस्थाप्रसंगात् परापरविशेषसामान्यकल्पनस्यानिवृत्तेः, सुदूरमपि गत्वा विशेषेषु सामान्यानभ्यु. पगमे सिद्धाः सामान्यरहिता विशेषाः । समवाये च सामान्यस्यासंभवः प्रसिद्ध एव तस्यैकत्वात् संभवे चानवस्थानुषंगात् समवाये सामान्यस्य समवायांतरकल्पनादिति न सामान्यादिषु सदिति ज्ञानं सत्ता निबंधनं बाध्यमानत्वात् । तथा प्रागभावादिष्वपि सत्तासमवाये प्रागभावादित्वविरोधात् न सत्तानिबंधनमस्तीतिज्ञानं । ततोऽस्तित्वधर्मविशेषणसामर्थ्यादेव तत्रास्तीति ज्ञानमभ्युपगंतव्यं । अन्यथाऽस्तीति व्यवहारायोगादिति केचिद्वैशेषिकाः समभ्यमंसत तांश्च परं प्रतिक्षिपंति । सामान्यादिषूपचरितसत्वाभ्युपगमात् मुख्यसत्वे बाधकसद्भावान्न पारमार्थिकसत्वं सत्तासंबधादिवाऽस्तित्वधर्मविशेषणबलादपि संभाव्यते, सत्ताव्यतिरेकेणास्तित्वधर्मग्राहकप्रमाणाभावात् । अन्यथास्तित्वधर्मेप्यस्तीति प्रत्ययादस्तित्वांतरपरिकल्पनायामनवस्थानुषंगात् । तत्रोपचरितस्यास्तित्वस्य प्रतिज्ञाने सामान्या
SR No.022436
Book TitleAaptpariksha
Original Sutra AuthorN/A
AuthorVidyanandswami
PublisherJain Sahitya Prasarak Karyalay
Publication Year
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy