________________
आप्तपरीक्षा।
७७
सत्वयोगत्सन्निति व्यवहारसाधनात् स्वतः सद्रूपस्याप्रसिद्धः । अथ नः स्वतः सन्न चासन सत्वसमवायात्तु सन्नित्यभिधीयते तदा व्याघातो दुरुत्तरः स्यात् सत्वासत्वयोरन्योन्यव्यवच्छेदरूपयोरेकतरस्य प्रतिषेधेड न्यतरस्य विधानप्रसंगात् उभयप्रतिषेधस्यासंभवात् । कथमेवं सर्वथा सत्वासत्वयोः स्याद्वादिभिः प्रतिषेधे तेषां व्याघातो न भवेदितिचेन्न, तैः कथंचित्सत्त्वासत्त्वयोर्विधानात् । सर्वथा सत्त्वासत्वे हि कथंचित्सत्त्वासत्त्वव्यवच्छेदेनाभ्युपगम्यते सर्वथा सत्वस्य कथंचित्सत्वस्य व्यवच्छेदेन व्यवस्थानात् । असत्वस्य च कथंचिदसत्वव्यवच्छेदेनेति सर्वथा सत्वस्य प्रतिषेधे कथंचित्सत्वस्य विधानात् । सर्वथा चासत्वस्य निषेधे कथंचिदसत्वस्य विधिरिति कथं सर्वथा सत्वासत्वप्रतिषेधे स्याद्वादिनां व्याघातो दुरुत्तरःस्यात् सर्वथैकांतवादिनामेव तस्य दुरुत्तरत्वात् । एतेन द्रव्यत्वाद्रव्यत्वयोरात्मत्वानात्मत्वयोश्चेतनत्वाचेतनत्वयोश्च परस्परव्यवच्छेदरूपयोयुगपत्प्रतिषेधे व्याघातो दुरुत्तरः प्रतिपादितः तदेकतरप्रतिषेधेऽ.. न्यतरस्य विधेरवश्यंभावात् . उभयप्रतिषेधस्यासंभवात् कथंचित्सत्वासत्वयोवैशेषिकैरनभ्युपगमात् । किं च स्वरूपेणासति महेश्वरे सत्वसमवाये प्रतिज्ञायमाने खांबुजे सत्वसमवायः परमार्थतः किंन्न भवेत् स्वरूपेणासत्वाविशेषात् । खांबुजस्याभावान्न तत्र सत्वसमवायः पारमार्थिकः सद्वर्गे द्रव्यगुणकर्मलक्षणे सत्वसमवायसिद्धेः महेश्वर एवात्मद्रव्यविशेषे सत्वसमवाय इति च स्वमनोरथमात्रं, स्वरूपेणासतः कस्यचित्सद्वर्गत्वासिद्धेः। स्वरूपेण सति महेश्वरे सत्वसमवायोपगमे सामान्यादावपि सत्वसमवायप्रसंगःस्वरूपेण सत्वाविशेषात् । यथैव हि महेश्वरस्य स्वरूपता सत्वं वृद्धवैशेषिकैरिष्यते तथा पृथिव्यादिद्रव्याणां रूपादिगुणानामुत्क्षेपणादिकर्मणां सामान्यविशेषसमवायानां च प्रागभावादीनामपीष्यत