________________
आप्तपरीक्षा ।
११
विशेष इति प्रत्ययाविशेषाद्विशेषपदार्थ इत्यभिधीयते, तथापि वैशेषिकतंत्रव्याघातो दुःशक्यः परिहर्तुं स्याद्वादिमतस्यैवं प्रसिद्धेः । स्याद्वादिनां हि शुद्ध संग्रहनयात्सत्प्रत्ययाविशेषाद्विशेषलिंगाभावादेकं सन्मात्रं तत्त्वं शुद्धं द्रव्यमिति मतं । तथैवाशुद्धसंग्रहनयादेकं द्रव्यमेको गुणादिरिति, व्यवहारनयात्तु यत्सत्तद् द्रव्यं पर्यायो वेति भेदः । यद्द्रव्यं तज्जीवद्रव्यमजीवद्रव्यं च यश्च पर्यायः सोऽपि परिस्पंदात्मकोऽपरिस्पंदात्मकश्चेति सोऽपि सामान्यात्मको विशेषात्मकश्चेति । स च द्रव्यादविष्वग्भूतो विष्वग्भूतो वेति यथा प्रतीतिर्निश्चीयते सर्वथा बाधकाभावात् । वैशेषिकाणां तु तथाऽभ्युपगमो व्याहत एव तंत्रविरोधात् । न हि तत्तंत्रे सन्मात्रमेव तत्त्वं सकलपदार्थानां तत्रैवांतर्भावादिति नयोऽस्ति । स्यान्मतं " द्रव्यपदेन सकलद्रव्यव्यक्तिभेदप्रभेदानां संग्रहादेको द्रव्यपदार्थः गुण इत्यादिपदेन चैकेन गुणादिभेदप्रभेदानां संग्रहाद्गुणादिरप्येकैकपदार्थो व्यवतिष्ठते ' विस्तरेणोपदिष्टानामर्थानां तत्वसिद्धये । समासेनाभिधानं यत्संग्रहं तं विदुर्बुधाः इति । पदार्थधर्मसंग्रहः प्रवक्ष्यत इत्यत्र पदार्थसंग्रहस्य धर्मसंग्रहस्य चैवं व्याख्यानादस्त्येव तथाऽभिप्रायो वैशेषिकाणामिति” तदप्यविचारितरम्यं । परमार्थतस्तथैकैकस्य द्रव्यादिपदार्थस्य प्रतिष्ठानुपपत्तेः । तस्यैकपदविषयत्वेनैकत्वोपचारात् । न चोपचरितपदार्थ संख्याव्यवस्थायां पारमार्थिकी पदार्थसंख्या समवतिष्ठतेऽतिप्रसंगात् । न चैकपदवाच्यत्वेन तात्विकमेकत्वं सिद्धयति व्यभिचारात्सेनावनादिपदेन हस्त्यादिधवादिपदार्थस्यानेकस्य वाच्यस्य प्रतीतेः । ननु “ सेनापदवाच्य एक एवार्थः प्रत्यासत्तिविशेषः । " संयुक्तसंयोगाल्पीयस्त्वलक्षणो हस्त्यादीनां प्रतीयते, वनशब्देन च धवादीनां तादृशप्रत्यासत्तिविशेष इत्येकपदवाच्यत्वं न तात्त्विकीमेकतां व्यभिचरति । तथा चैवमुच्यते द्रव्यमित्येकः पदार्थः एकपदवाच्यत्वात् यद्य
*