________________
१२
श्रीविद्यानंदिस्वामिविरचिता
देकपदवाच्यं तत्तदेकपदार्थो यथा सेनावनादिस्तथा च द्रव्यमेकपदवाच्यं तस्मादेकः पदार्थः । एतेन गुणादिरप्येकः पदार्थः प्रसिद्धोदाहरणसाधर्म्यात्साधितो वेदितव्य" इति कश्चित् । सोऽपि न विपश्चित् । सेनाशब्दादनेकत्र हस्त्याद्यर्थे प्रतीतिप्रवृत्तिप्राप्तिसिद्धेः । वनशब्दाच्च धवखदिरपलाशादावनेकत्रार्थे । यत्र हि शब्दात्प्रतीतिप्रवृत्तिप्राप्तयः समधिगम्यंते स शब्दस्यार्थः प्रसिद्धस्तथा वृद्धव्यवहारात् । न च सेनावनादिशब्दात्प्रत्यासत्तिविशेषे प्रतीतिप्रवृत्तिप्राप्तयोऽनुभूयते येन स तस्यार्थः · स्यात् । प्रत्यासत्तिविशिष्टा हस्त्यादयो धवादयो वा सेनावनादिशब्दानामर्थ इति चेत्सिद्धस्तर्ह्येकपदवाच्योऽनेकार्थः । तेन च कथमेकपदवाच्यत्वं न व्यभिचरेत् । तथा गौरिति पदेनैकेन पश्वादेर्दशप्रकारस्यैका * दशप्रकारस्य वा वाच्यस्य दर्शनाच्च व्यभिचारी हेतुः । कश्चिदाह न गौरित्येकमेव पदं पश्वादेरनेकस्यार्थस्य वाचकं तस्य प्रतिवाच्यभेदादन्यएव हि गौरिति शब्दः पशोर्वाचकोऽन्यश्च दिगादेः अर्थभेदवच्छब्दभेदव्य वस्थितेः । अन्यथा सकलपदार्थस्यैकपदवाच्यत्वप्रसंगादिति । तस्याप्यनिष्टानुषंगः स्यात् । द्रव्यमिति पदस्याप्यनेकत्वप्रसंगात् । पृथिव्याद्यनेकार्थवाचकत्वात् अन्यदेव हि पृथिव्यां द्रव्यमिति पदं प्रवर्तते । अन्यदेवास तेजसि वायावाकाशे काले दिश्यात्मनि मनसि चेत्येकपदवाच्यत्वं द्रव्यपदार्थस्यासिद्धं स्यात् । ननु द्रव्यत्वाभिसंबंध एको द्रव्यपदस्यार्थो नानेकः पृथिव्यादिः तस्य पृथिव्यादिशब्दवाच्यत्वात् । तत एकमेव द्रव्यपदं नानेकमिति चेत्, किमिदानीं द्रव्यत्वाभिसंबंधो द्रव्यपदार्थः स्यात् ? न चासौ द्रव्यपदार्थस्तस्य द्रव्यत्वोपलक्षितसमवाय पदार्थत्वात् । एतेन गुणत्वाभिसंबंधो गुणपदस्यार्थः कर्मत्वाभिसंबंधः कर्मपदस्येत्येतत्प्रतिन्यूढं गुणत्वाभिसंबंधस्य गुणत्वोपलक्षितसमवाय पदार्थत्वात्
-