________________
आप्तपरीक्षा।
कर्मत्वाभिसंबंधस्य च कर्मत्वोपलक्षितसमवायपदार्थस्य कथनात् । न चैवं सामान्यादिपदार्थः सिद्धयति । सामान्यादिषु सामान्यांतराभिसंबंधस्यासंभवादित्युक्तं प्राक् । एतेन पृथिवीत्वाद्यभिसंबंधात्पृथिवीत्यादिशब्दार्थस्य व्याख्यानं प्रत्याख्यातं । न हि पृथिवीत्वाभिसंबंधः पृथिवीशब्दवाच्यः । पृथिवीत्वोपलक्षितस्य समवायस्य पृथिवीत्वाभिसंबंधस्य पृथिवीशब्देनावचनात् । द्रव्यविशेषस्य पृथिवीशब्देनाभिधानाददोष इति चेत् । कःपुनरसौ वृक्षक्षपादिपृथिवीभेदव्यतिरिक्तः पृथिवीद्रव्यविशेषः । पृथिवीति पदेन संगृह्यमाण इति चेत् । कथं पुनः पृथिवीपदेनैकेनानेकार्थः संगृह्यते ? द्रव्यादिपदेनेवेति दुरवबोधं । कश्चायं संग्रहो नाम ? शब्दात्मकः प्रत्ययात्मकोऽर्थात्मको वा । न तावच्छब्दात्मकः शब्देनानंतानां द्रव्यादिभेदप्रभेदानां वा संग्रहीतुमशक्यत्वात् । तत्र संकेतस्य कर्तुमशक्यत्वादस्मदादेस्तदप्रत्यक्षत्वात् , क्रमेण युगपद्वा अननुमेयत्वाच्च । न चाप्रत्यक्षेऽननुमेये वा सर्वथाप्यप्रतिपन्नेऽर्थे संकेतः शक्यक्रियोऽस्ति । सर्वज्ञस्तत्र संकेतयितुं समर्थोऽपि नाऽसर्वज्ञान् संकेतं ग्राहयितुमलमिति कुतः संकेतः । न चासंकेतितेऽर्थे शब्दः प्रवर्तते यतः-संगृह्यतेऽनंताः पदार्थाः येन शब्देन स शब्दात्मा संग्रहः सिद्धयत्येव । मामच्छब्दात्मकः संग्रहः प्रत्ययात्मकस्त्वस्तु। संगृह्यते अर्था येन प्रत्ययेन स संग्रह इति व्याख्यानात्तेन तेषां संग्रहीतुं शक्यत्वादिति चेत् । कुतः पुनरसौ प्रत्ययः प्रत्यक्षाद्नुमानादागमाद्वा ? न तावदस्मदादिप्रत्यक्षात् । तस्यानंतद्रव्यादिभेदप्रभेदागोचरत्वात् । नापि योगिप्रत्यक्षात्। योगिन एव तत्संग्रहप्रसंगादस्मदादीनां तदयोगात् । न हि योगिप्रत्यक्षादस्मदादयः संप्रतियंति योगित्वप्रसंगात् । नाप्यनुमानादनंतद्रव्यादिभेदप्रभेदप्रतिबद्धानामेकशोऽनंतलिंगानामप्रतिपत्तेरस्मदाद्यप्रत्यक्षादनुमानांतरा