________________
१४
श्रीविद्यामंदिस्वामिविरचिता
त्तलिंगप्रतिपत्तावनवस्थानुषंगात् प्रकृतानुमानोदयायोगात् । यदि पुनरागमात्संग्रहात्मकः प्रत्ययः स्यात्तदा युक्त्यानुगृहीतात्तयाऽननुगृहीताद्वा । न तावदाद्यः पक्षस्तत्र युक्तेरेवासंभवात् । नापि द्वितीयो युक्त्याऽननुगृहीतस्यागमस्य प्रामाण्यानिष्टेस्तदिष्टौ वाऽतिप्रसंगात् । न चाप्रमाणकः प्रत्ययः संग्रहस्तेन संगृहीतानामसंगृहीतकल्पनात् । यदि पुनरर्थात्मकः संग्रहोऽ भिधीयते तदा संगृह्यत इति संग्रहः संगृह्यमाणः सकलोऽर्थः स्यात् । स चासिद्ध एव तद्व्यवस्थापकप्रमाणाभावादिति कथं तस्य व्याख्यानं युज्यते यतः पदार्थधर्मसंग्रहः प्रवक्ष्यत इति प्रतिज्ञा साधीयसीष्यते । संग्रहाभावे च कस्य महोदयत्वं साध्यतेऽसिद्धस्य स्वयमन्यासाधनत्वोपपत्तेः । एतेन पदार्थधर्मसंग्रहः सम्यग्ज्ञानमिति व्याख्यानं प्रतिव्यढं । तदभावस्य समर्थनान्महतो निःश्रेयसस्याभ्युदयस्य चोदयोऽस्मादिति महोदय इत्येतद्व्याख्यानं वंध्यासुतसौभाग्यादिव्यावर्णनमिव प्रेक्षावतामुपहासास्पदमाभासते । तदेवं द्रव्यादिपदार्थानां यथावस्थितार्थत्वाभावान्न तद्विषय सम्यग्ज्ञानं नापि हेयोपादेयव्यवस्था । येनोपादेयेषूपादेयत्वेन हेयेषु च हेयत्वेन श्रद्धानं श्रद्धाविशेषस्तत्पूर्वकं च वैराग्यं तदभ्यासभावनानुष्ठानं निःश्रेयसकारणं सिध्येत् । तदसिद्धौ च कथमर्हदुपदेशादिवेश्वरोपदेशादप्यनुष्ठानं प्रतिष्ठितं स्यात् । ततस्तद्व्यवच्छेदादेव महात्मा निश्चेतन्यः । कपिलसुगतव्यवच्छेदादिवेति सूक्तमिदमन्ययोगव्यवच्छेदान्महात्मनि निश्चिते तदुपदेशसामर्थ्याद्नुष्ठानं प्रतिष्ठितं स्यादिति । एतेन 'प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वतः' इति परापरगुरुनमस्कारकरणमपास्तमीश्वरकणादयोराप्तवन्यवच्छेदात् । तयोर्यथाव्यवस्थितार्थज्ञानाभावात्तदुपदेशाप्रामाण्यादित्यलं विस्तरेण । विश्वतत्त्वानां ज्ञातुः कर्मभूभृतां भेत्तुरेव मोक्षमार्गप्रणयनोपपत्तेराप्तत्वनिश्चयात् ॥ ४ ॥