________________
आप्तपरीक्षा ।
तत्रासिद्धं मुनींद्रस्य भेत्तृत्वं कर्मभूभृतां । ये वदंति विपर्यासात्तान्प्रत्येवं प्रचक्ष्महे ॥ ५ ॥ तत्र तेषु मोक्षमार्ग प्रणेतृत्वकर्मभूभृद्भेत्तृत्वविश्वतत्त्वज्ञातृत्वेषु कर्मभूभृतां भेत्तृत्वमसिद्धं । मुनींद्रस्य विपर्यासात्तदभेत्तृत्वात् कर्मभूभृदसंभवात् सदाशिवस्य ये वदंति योगास्तान्प्रत्येवं वक्ष्यमाणप्रकारेण प्रचक्ष्महे प्रवदाम इत्यर्थः ॥ ५ ॥
१५
प्रसिद्धः सर्वतत्त्वज्ञस्तेषां तावत्प्रमाणतः । सदाविध्वस्तनिःशेषबाधकात्स्वसुखादिवत् ॥ ६ ॥ यदि नाम विश्वतत्त्वज्ञः प्रमाणात्सर्वदा विध्वस्तबाधकादात्मसुखादिवप्रसिद्धो यौगानां तथापि किमिष्टं भवतां सिद्धं भवेदित्याह
ज्ञाता यो विश्वतत्त्वानां स भेत्ता कर्मभूभृतां । भवत्येवान्यथा तस्य विश्वतत्त्वज्ञता कुतः ॥७॥ इति स्याद्वादिनाभस्माकं कर्मभूभृद्भेत्तृत्वं मुनीन्द्रस्येष्टं सिद्धं भवतीति वाक्यार्थः । तथाहि-भगवान् परमात्मा कर्मभूभृतां भेत्ता भवत्येव विश्वतत्त्वानां ज्ञातृत्वात् । यस्तु न कर्मभूभृतां भेत्ता स न विश्वतत्त्वानां ज्ञाता यथा रथ्यापुरुषः । विश्वतत्वानां ज्ञाता च भगवान् निर्बाधबोधसिद्धः । तस्मात् कर्मभूभृतां भेत्ता भवत्येवेति केवलव्यतिरेकी हेतुः साध्याऽन्यभिचारात् । न तावदयमसिद्धः प्रतिवादिनो वादिनो वा । ताभ्यामुभाभ्यां परमात्मनः सर्वज्ञत्वसाधनात् । नाप्यनैकांतिकः कार्त्स्यतो देशतो वा विपक्षे वृत्त्यभावात् । तत एव न विरुद्धः । नन्वयं कालात्ययापदिष्टस्तदागमबाधितपक्षनिर्देशानंतरं प्रयुक्तत्वात् । सदैव मुक्तः सदैवेश्वरः पूर्वस्याः कोटेर्मुक्तात्मनामिवाभावादित्यागमान्महेश्वरस्य सर्वदा कर्मणामभावप्रसिद्धेस्तद्धेत्तृत्वस्य बाधप्रसिद्धेः । सतां हि कर्मणां कश्चित्ता स्यान्न पुन -