________________
१६
श्रीविद्यानंदिस्वामिविरचिता
wwmorna
रसतामित्यपरः । सोऽपि न परीक्षादक्षमानसः । तथा तद्बाधकागमस्याप्रमाणत्वात् तदनुग्राहकानुमानाभावात् । ननु च नेश्वराख्यः सर्वज्ञः कर्मभूभृतां भेत्ता सदा कर्ममलैरस्पृष्टत्वात् । यस्तु कर्मभूभृतां भेत्ता स न कर्ममलैः शश्वदस्पृष्टो यथेश्वरादन्यो मुक्तात्मा शश्वदस्पृष्टश्च कर्ममलैमंगवान्महेश्वरस्तस्मान्न कर्मभूभृतां भेत्तेत्यनुमानं प्रकृतपक्षबाधकागमानुग्राहकं । न चात्रासिद्धसाधनं । तथाहि-शश्वत्कर्ममलैः अस्पृष्टः परमात्माऽनुपायसिद्धत्वात् । यस्तु न तथा स नानुपायसिद्धो यथा सादिर्मुक्तात्मा । अनुपायसिद्धश्च सर्वज्ञो भगवान् तस्मात्कर्ममलैः शश्वदस्पृष्ट इत्यतोऽनुमानांतरात्तत्सिद्धेरिति वदंतं प्रत्याह
नास्पृष्टः कर्मभिः शश्वद्विश्वहश्वास्ति कश्चन । तस्यानुपायसिद्धस्य सर्वथाऽनुपपत्तितः॥८॥
नह्यनुपायसिद्धत्वे कुतश्चित्प्रमाणादप्रसिद्ध तबलात्कर्मभिः शश्वदस्पष्टत्वसाधनं सिद्धिमध्यास्ते । तदसिद्धौ च न कर्मभूभनेत्तृत्वाभावस्ततः सिध्यति । येनेदमनुमानं प्रस्तुतपक्षबाधकागमस्यानुप्राहक सिद्धयेत्तत्प्रामाण्यं साधयेत् । न चाप्रमाणभूतेनागमेन प्रकृतः पक्षो बाध्यते हेतुश्च कालात्ययापदिष्टः स्यात् । " नन्वीश्वरस्यानुपायसिद्धत्वमनादित्वात्साध्यते। तदनादित्वं च तनुकरणभुवनादौ निमित्तकारणत्वादीश्वरस्य । न चैतदसिद्धं । तथा हि-तनुभुवनकरणादिकं विवादापन्नं बुद्धिमन्निमित्तकं कार्यत्वात् । यत्कार्य तद्बुद्धिमन्निमित्तकं दृष्टं यथा वस्त्रादि । कार्य चेदं प्रकृतं तस्माद् बुद्धिमन्निमित्तकं । योऽसौ बुद्धिमांस्तद्धेतुः स ईश्वर इति प्रसिद्धं साधनं तदनादित्वं साधयत्येव । तस्य सादित्वे ततः पूर्वे तन्वाद्युत्पत्तिविरोधात् । तदुत्पत्तौ वा तद्बुद्धिमन्निमित्तत्वाभावप्रसंगात् । यदि पुनस्ततः पूर्वमन्यबुद्धिमन्निमित्तकत्वमिष्यते तदा ततोऽपि पूर्वमन्यबुद्धि