________________
आप्तपरीक्षा।
मन्निमित्तकत्वमिष्यते तदा ततोऽपि पूर्वमन्यबुद्धिमन्निमित्तकत्वमित्यनादीश्वरसंततिः सिद्धयेत् । न चैषा युक्तिमती पूर्वेश्वरस्यानंतस्य सिद्धावुत्तरसकलेश्वरकल्पनावैयर्थ्यात् । तेनैव तन्वादिकार्यपरम्परायाः सकलायाः निर्माणात् । ततोऽपि पूर्वस्यानंतस्य महेश्वरस्य सिद्धौ तस्य वैयर्थ्यादन्यथा परस्परमिच्छाव्याघातप्रसंगादनेकेश्वरकारणत्वापत्तेश्व जगतः । सुद् रमपि गत्वाऽनादिरेक एवेश्वरोऽनुमंतव्यः । स पूर्वेषामपि गुरुः कालेनाविच्छेदादिति तस्य जगन्निमित्तत्वसिद्धरनादित्वमंतरेणानुपपत्तेरित्यनादित्वसिद्धिः । ततो न कर्मभूभृतां भेत्ता मुनींद्रः शश्वत्कर्मभिरस्पृष्टत्वात् । यस्तु कर्मभूभृतां भेत्ता स न शश्वत्कर्मभिरस्पृष्टः । यथोपायान्मुक्तः । शश्वत्कर्मभिरस्पृष्टश्च भगवांस्तस्मान्न कर्मभूभृतां भेत्ता । शश्वत्कर्मभिर. स्पृष्टोऽसावनुपायसिद्धत्वात् । यस्तु न तथा स नानुपायसिद्धः । यथा सोपायमुक्तात्मा अनुपायसिद्धश्चायं तस्मात्सदा कर्मभिरस्पृष्टः । अनुपायसिद्धोऽयमनादित्वात् । यस्तु न तथा स नानादिः । यथेतरो मुक्तात्मा । अनादिश्चायं तस्मादनुपायसिद्धः । अनादिरयं तनुकरणभुवनादिनिमित्तत्वात् । यस्तु नानादिः स न तनुकरणभुवनादिनिमित्तकः । यथाऽपरो मुक्तात्मा । तनुकरणभुवनादिनिमित्तं च भगवांस्तस्मादनादिः । तनुकरणभुवनादिनिमित्तं तु तस्य तन्वादेर्बुद्धिमन्निमित्तत्वसाधनात् । तन्वादयो बुद्धिमन्निमित्तकाः कार्यत्वात् । यत्कार्य तबुद्धिमन्निमित्तकं दृष्टं । यथा वस्त्रादि । कार्य च तन्वादयो विवादापन्नास्तस्माद् बुद्धिमन्निमित्तका इत्यनुमानमालाऽमला कर्मभूभृतां भेत्तारमपास्यत्येव । न चेदं कार्यत्वमसिद्धं तन्वादेर्वादिप्रतिवादिनोः कायत्वाभ्य नुज्ञानात् । नाप्यनैकांतिकं, कस्यचित्कार्यस्याबुद्धिमन्निमित्तस्यासंभवाद्वि