________________
१८
श्रीविद्यानंदिस्वामिविरचिता
पेक्ष वृत्त्यभावात् । न चेश्वरशरीरेण व्यभिचारस्तदसिद्धे रीश्वरस्याशरीरत्वात् । नापीश्वरज्ञानेन । तस्य नित्यत्वात्कार्यत्वासिद्धेः । न चेश्वरेच्छया । तस्येच्छाशक्तेरपि नित्यत्वात् क्रियाशक्तिवत् । तत एव न विरुद्धं साधनं सर्वथा विपक्षे संभवाभावात् । न चायं कालात्ययापदिष्टो हेतुः पक्षस्य प्रत्यक्षादिप्रमाणेनाबाधितत्वात् । न हि तन्वादेर्बुद्धिमन्निमित्तत्वं प्रत्यक्षेण बाध्यते तस्यातींद्रियतया तदविषयत्वात् । नाप्यनुमानेन तस्य तद्विपरीतसाधनस्यासंभवात् । ननु तनुभुवनकरणादयो न बुद्धिमन्निमित्तका दृष्टकर्तृकप्रसादादिविलक्षणत्वादाकाशादिवदित्यनुमानं पक्षस्य बाधकमिति चेत् न । असिद्धत्वात् । सन्निवेशादिविशिष्टत्वेन दृष्टकर्तृकप्रासादाद्यविलक्षणत्वात्तन्वादीनां । यदि पुनरगृहीत समयस्य कृतबुद्धयुत्पादकत्वाभावात्तन्वादीनां दृष्टकर्तृकविलक्षणत्वमिष्यते तदा कृत्रिमाणामपि मुक्ता - फलादीनाम गृहीत समयस्य कृतबुद्धयनुत्पादकत्वादबुद्धिमन्निमित्तकत्वप्रसंगः। न च दृष्टकर्तृकत्वादृष्टकर्तृकत्वाभ्यां बुद्धिमन्निमित्तत्वेतरत्वसिद्धिः साधीयसी तदविनाभावाभावात् । न ह्यदृष्टकर्तृकत्वमबुद्धिमन्निमित्तत्वेन व्याप्तं जीर्णप्रासादादेरदृष्टकर्तृकस्यापि बुद्धिमन्निमित्तत्वासिद्धेरिति न दृष्टकर्तृकविलक्षणत्वमबुद्धिमन्निमित्तत्वं साधयेत् यतोऽनुमानबाधितः पक्षः स्यात् कालात्ययापदिष्टं च साधनमभिधीयेत । नाप्यागमेन प्रकृतः पक्षो बाध्यते तत्साधकस्यैवागमस्य प्रसिद्धेः । तथा हि " विश्वंतश्चक्षुरुत विश्वतोमुखो, विश्वतो बाहुरुत विश्वतः पौत्, बाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन् देव एकः " श्रुतेः सद्भावात् । तथा व्यासवचनं च । " अज्ञो जंतुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा "
1
१ अबुद्धिमन्निमित्तादिकं विपक्षः । २ कार्यज्ञानं विवादाध्यासितं । ३ वचनं । * व्यापारः । ५ व्यापित्वं । ६ पुण्यपापाभ्यां । ७ परमाणुभिः ।