________________
आप्तपरीक्षा।
इति पक्षस्यानुग्राहकमेव न तु बाधक । ततो न कालात्ययापदिष्टो हेतुरबाधितपक्षनिर्देशानंतरं प्रयुक्तत्वात् । तत एव न सत्प्रतिपक्षः बाधकानुमानाभावादित्यनवयं कार्यत्वसाधनं तन्वादीनां बुद्धिमन्निमित्तत्वं साधयत्येव । यदप्युच्यते कैश्चिद् बुद्धिमान्नमित्तत्वसामान्ये साध्ये तन्वादीनां सिद्धसाधनमनेकतदुपभोक्तृबुद्धिमन्निमित्तत्वसिद्धेः । तेषां तददृष्टनिमित्तत्वात्तददृष्टस्य चेतनारूपत्वात् चेतनायाश्च बुद्धित्वाद् बुद्धिमन्निमित्तत्वसिद्धेरिति । तदप्यसारं । तन्वाद्युपभोक्तृप्राणिनामदृष्टस्य धर्माधर्मसंज्ञकस्य चेतनत्वासिद्धेरबुद्धित्वात् । अर्थग्रहणं हि बुद्धिश्चेतना न च धर्मोऽर्थग्रहणमधर्मो वा तयोर्बुद्धेरन्यत्वात् प्रयत्नादिवदिति नानेकबुद्धिमन्निमित्तत्वं तन्वादीनां सिद्धयति यतः सिद्धसाधनं बुद्धिमन्निमित्तत्वसामान्ये साध्येऽभिधार्यते ॥ ननु च वस्त्रादि सशरीरेणासर्वज्ञेन च बुद्धिमता कुविंदादिना क्रियमाणं दृष्टमिति तन्वादिकार्यमपि सशरीरासर्वज्ञबुद्धिमन्निमित्तं सिद्धयेदितीष्टविरुद्धसाधनाद्विरुद्धं साधनं । सर्वज्ञेनाशरीरेण क्रियमाणस्य कस्यचिद्वस्त्रादिकार्यस्यासिद्धेश्च साध्यविकलमुदाहरणमिति कश्चित् । सोऽपि न युक्तवादी तथा सर्वानुमानोच्छेदप्रसंगात्। तथा हि साग्निरयं पर्वतो धूमवत्त्वान्महानसवदित्यत्रापि पर्वतादौ महानसपरिदृष्टस्यैव खादिरपालाशाद्यग्निनाग्नि मात्रस्य सिद्धेविरुद्धसाधनाद्विरुद्धं साधनं स्यात् । तार्णाद्यग्निनाग्निमत्त्वस्य पर्वतादौ साध्यस्य महानसादावभावात् साध्यविकलमुदाहरणमप्यनुषज्येत । यदि पुनरग्निमत्त्वसामान्यं देशादिविशिष्टं पर्वतादौ साध्यत इति नेष्टविरुद्धं साधनं, नापि साध्यविकलमुदाहरणं महानसादावपि देशादिकिशिष्टस्याग्निमत्त्वस्य सद्भावादिति मतं तदा तन्वादिषु बुद्धिमन्निमित्तत्वसामान्यं तन्वादिस्वकार्यविनिर्माणशक्तिविशिष्टं साध्यत इति नेष्टविरुद्धसाधनो हेतुः । नापि साध्यविकलो दृष्टांतः स्वकार्यविनिर्माणशक्तिविशि