________________
श्रीविद्यानंदिस्वामिविरचिता
ष्टस्य बुद्धिमन्निमित्तत्वसामान्यस्य साध्यस्य तत्र सद्भावात् । सिद्धे च बुद्धिमन्निमित्तत्वसामान्ये किमयं बुद्धिमान् हेतुः सशरीरोऽशरीरो वेति विप्रतिपत्तौ तस्याशरीरत्वं साध्यते सशरीरत्वे बाधकसद्भावात् । तच्छरीरं हि न तावन्नित्यमनादि सावयवत्वादस्मदादिशरीरवत् । नाप्यनित्यं सादि, तदुत्पत्तेः पूर्वमीश्वरस्याशरीत्वसिद्धेः । शरीरांतरेण सशरीरत्वेऽनवस्थाप्रसंगात् । तथा किमसौ सर्वज्ञोऽसर्वज्ञो वेति विवादे सर्वज्ञत्वं साध्यते तस्यासर्वज्ञत्वे समस्तकारकप्रयोक्तृत्वानुपपत्तेः तन्वादिकारणत्वाभावप्रसंगात् । तन्वादिसकलकारकाणां परिज्ञानाभावेऽपि प्रयोक्तृत्वे तन्वादिकार्यव्याघातप्रसंगात् । कुविंदादेर्वस्त्रादिकारकस्यापरिज्ञाने तद्वयाघातवत् । न चेश्वरकार्यस्य तनुकरणभुवनादेः कदाचिद्वयाघातः संभवति महेश्वरसमीहितकार्यस्य यथाकारकसंपतिं विचित्रस्यादृष्टादेरव्याघातदर्शनात् । यदप्यभ्यधायि तनुकरणभुवनादिकं नैकस्वभावेश्वरकारणकृतं विचित्रकार्यत्वात् । यद्विचित्रं कार्यं तन्नैकस्वभावकारणकृतं दृष्टं यथा घटपटमुकुटशकटादि, विचित्रकार्यं च प्रकृतं तस्मान्नैकस्वभावेश्वराख्यकारणकृतमिति तदप्यसम्यक् सिद्धसाध्यतापत्तेः। न ह्येकस्वभावमीश्वराख्यं तन्वादेर्निमित्तकारणमिष्यते तस्य ज्ञानशक्तीच्छाशक्तिक्रियाशक्तित्रयस्वभावत्वात् । तनुकरणभुवनाद्युपभोक्तृप्राणिगणादृष्टविशेषवैचित्र्यसहकारित्वाच्च विचित्रस्वभावोपपत्तेः घटपटमुकुटादिकार्यस्यापि तन्निदर्शनस्य तदुत्पादनविज्ञानेच्छाक्रियाशक्तिविचित्रतदुपकरणसचिवेनैकेन पुरुषेण समुत्पादनसंभवात्साध्यविकलताननुषंगात् तदेवं कार्यत्वं हेतुस्तनुकरण भुवनादेर्बुद्धिमन्निमित्तत्वं साधयत्येव सकलदोपरहितत्वादिति वैशेषिकाः समभ्यमंसत तेऽपि न समंजसवाचः । तनुकरणभुवनादयो बुद्धिमन्निमित्तका इति पक्षस्य व्यापकानुपलंभेन बाधितत्वात् १ कारकसंघातमित्यपि पाठः ।
२०