________________
आप्तपरीक्षा।
२१
नामति व्यापारकाऽनु
व्यापकत्ववयव्यतिरेको कापलभेन
कार्यत्वादिहेतोः कालात्ययापदिष्टत्वाच्च । तथा हि तन्वादयो न बुद्धिमन्निमित्तकास्तदन्वयव्यतिरेकानुपलंभात् । यत्र यदन्वयव्यतिरेकानुपलभंस्तत्र न तन्निमित्तकत्वं दृष्टं यथा घटघटीशरावोदंचनादिषु कुर्विदाद्यन्वयव्यतिरेकाऽननुविधायिषु न कुविंदादिनिमित्तकत्वा बुद्धिमदन्वयव्यतिरेकाऽनुपलंभश्च तन्वादिषु, तस्मान्न बुद्धिमन्निमित्तकत्वमिति व्यापकानुपलंभः तत्कारणकत्वस्य तदन्वयव्यतिरेकोपलंभेन व्याप्तत्वात् कुलालकारणकस्य घटादेः कुलालान्वयव्यतिरेकोपलंभप्रसिद्धेः सर्वत्र वाधकाभावात् । तस्य तद्वयापकत्वव्यवस्थानात् । न चायमसिद्धस्तन्वादीनामीश्वरव्यतिरेकानुपलंभस्य प्रमाणसिद्धत्वात् । स हि न तावत्कालव्यतिरेकः शाश्वतिकत्वादीश्वरस्य कदाचिदभावासंभवात् । नापि देशव्यतिरेकः तस्य विभुत्वेन क्वचिदभावानुपत्तेरीश्वराभावे कदाचित्वचित्तन्वादिकार्याभावानिश्चयात् । स्यान्मतं महेश्वरसिसृक्षानिमित्तत्वात्तन्वादिकार्यस्यायमदोष इति । तदप्यसत्यं । तदिच्छाया नित्यानित्यविकल्पद्वयानतिवृत्तेः । तस्या नित्यत्वे व्यतिरेकासिद्धिः । सर्वदा सद्भावात्तन्वादिकार्योत्पत्तिप्रसंगात् । नन्वीश्वरेच्छाया नित्यत्वेऽप्यसर्वगतत्वात् व्यतिरेकः सिद्ध एव क्वचिन्महेश्वरसिसृक्षापाये तन्वादिकार्यानुत्पत्तिसंभवादिति चेन्न । तद्देशे व्यतिरेकाभावसिद्धेः । देशांतरे सर्वदा तदनुपपत्तेः कार्यानुदयप्रसंगात् । अन्यथा तदनित्यत्वापत्तेः। अनित्यैवेच्छास्त्विति चेत् सा तर्हि सिसक्षा महेश्वरस्योत्पद्यमाना सिसृक्षांतरपूर्विका यदीष्यते तदाऽनवस्थाप्रसंगः परापरसिसृक्षोत्पत्तावेव महेश्वरस्योपक्षीणशक्तिकत्वात्प्रकृततन्वादिकार्यानुदय एव स्यात् । यदि पुनः प्रकृततन्वादिकार्योत्पत्तौ महेश्वरस्य सिसृक्षोत्पद्यते सापि तत्पूर्वसिसृक्षात इत्यनादिसिसृक्षासंतति नवस्थादोषमास्कंदति सर्वत्रकार्यकारणसंतानस्यानादित्वसिद्धेबर्बीजांकुरादिवदित्यभिधीयते तदा युगपन्नानादेशेषु तन्वादिकार्यस्यो