________________
१०
श्रीविद्यानंदिस्वामिविरचिता
murarmammmmmmmmm
योर्द्रव्यलक्षणत्वमेकं न तावत्सामान्यं तस्य द्रव्यगुणकर्माश्रयत्वात् । न चैते द्रव्यलक्षणे द्रव्ये, स्वेष्टविघातात् । नापि गुणौ, द्रव्याश्रयी अगुणवान् संयोगविभागेष्वप्यकारणमनपेक्ष इति गुणलक्षणाभावात् । प्रत्ययात्मकत्वात्तयोर्गुणत्वमिति चेत् न । प्रत्ययात्मनोर्लक्षणयोः पृथिव्यादिष्वसंभवात् तयोस्तदसाधारणधर्मत्वासंभवादेतेनाभिधानामनोर्द्रव्यलक्षणयोर्गुणत्वं प्रत्याख्यातं । नापि ते कर्मणी । परिस्पंदात्मकत्वासंभवादेकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणस्याभावाच्च । तयोरेकद्रव्यत्वे नवविधत्वप्रसंगाद्रव्यलक्षणस्य कुतो द्वित्वमेकत्वं वा व्यवतिष्ठते । यतो द्रव्यलक्षणत्वमेकं तत्र प्रवर्तमानमेकत्वं व्यवस्थाफयेत्तथोपचरितोपचारप्रसंगश्च द्रव्यलक्षणत्वेनैकेन योगाद्रव्यलक्षणयोरेकत्वादेकं द्रव्यलक्षणं, तेन चोपचरितेन द्रव्यलक्षणेनैकेन योगात्पृथिव्यादीन्येको द्रव्यपदार्थ, इति कुतः पारमार्थिको द्रव्यपदार्थः कश्चिदेकः सिद्धयेत्। यदप्यभ्यधायि वैशेषिकैः पृथिव्यादीनां नवानां द्रव्यत्वेनैकेनाभिसंबंधादेकत्वमिति द्रव्यं नामैकः पदार्थ इति तदपि न युक्तं । परमार्थतो द्रव्यपदार्थस्यैकस्यासिद्धेः तस्योपचारादेव प्रसिद्धेः । एतेन चतुर्विशतिगुणानां गुणत्वेनैकेनाभिसंबंधादेको गुणपदार्थः, पंचानां च कर्मणां कर्मत्वेनैकेनाभिसंबंधादेकः कर्मपदार्थ इत्येतत्प्रत्याख्यातं । तथा वास्तवगुणकर्मपदार्थान्यवस्थितेः कथं चैवं सामान्यपदार्थ एकः सिद्धयेद्विशेषपदार्थो वा समवायपदार्थो वा (इव)। परापरसामान्ययोः सामान्यांतरेणैकेनाभिसंबंधायोगाद्विशेषाणां चेति समवाय एवैकः पदार्थः स्यात् । यदि पुनर्यथेहेदमिति प्रत्ययाविशेषाद्विशेषप्रत्ययाभावादेकः समवायः तथा द्रव्यमिति प्रत्ययाविशेषादेको द्रव्यपदार्थः स्यात् गुण इति प्रत्ययाविशेषाद् गुणपदार्थः कर्मेति प्रत्ययाविशेषात्कर्मपदार्थः सामान्यमिति प्रत्ययाविशेषात्सामान्यपदार्थः