________________
श्रीविद्यानंदिस्वामिविरचिता
बहिरर्थपरमाणवः प्रमाणाभावादवयव्यादिवदिति योगाचारमतानुसारिणः प्रतिपद्यते तेषामपि न संवित्परमाणवः स्वसंवेदनप्रत्यक्षतः प्रसिद्धास्तत्र तेषामनवभासनादंतरात्मन एव सुखदुःखाद्यनेकविवर्तव्यापिनः प्रतिभासनात् । तथा परप्रतिभासोऽनाद्यविद्यावासनाबलात्समुपजायमानो भ्रांतएवेति चेन्न, बाधकप्रमाणाभावात् । नन्वेकः पुरुषः क्रममुवः सुखादिपर्यायान् सहभुवश्च गुणान् किमेकेन स्वभावेन व्याप्नोत्यनेकेन वा ? न तावदेकेन तेषामेकरूपतापत्तेः । नाप्यनेकेन तस्याप्यनेकस्वभावत्वात् भेदप्रसंगादेकत्वविरोधादित्यपि न बाधकं वेद्यवेदकाकारैकज्ञानेन तस्यापसारितत्वात् संवेदनं ह्येकं वेद्यवेदकाकारौ स्वसंवित्स्वभावेनैकेन व्याप्नोति न च तयोरेकरूपता, संविद्रूपेणैकरूपतैवेति चेत् तात्मा सुखदुःखज्ञा नादम् िस्वभावेनैकेनात्मत्वेन व्याप्नोति तेषामात्मरूपतयैकत्वाविरोधात् कथमेवं सुखादिभिन्नाकारः प्रतिभास इतिचेद्वद्यादिभिन्नाकारः प्रतिमासः कथमेकत्र संवेदने स्यादिति समः पर्यनुयोगः ।वेद्यादिवासनाभेदादितिचेत् सुखादिपर्यायपरिणामभेदादेकत्रात्मनि सुखादिभिन्नाकारः प्रतिभासः किं न भवेत् । वेद्याद्याकारप्रतिमासभेदेऽप्यकं संवेदनमशक्यविवेचनत्वादिति वदन्नपि सुखाद्यनेकाकारप्रतिभासेऽप्येक एवात्मा शश्वदशक्यविवेचनत्वादिति वदंतं कथं प्रत्याचक्षीत यथैव हि संवेदनस्यैकस्य वेद्याद्याकाराः संवेदनांतरं नेतुमशक्यत्वादशक्यविवेचनाः संवेदनमेकं तथात्मनः सुखाद्याकाराः शश्वदात्मांतरं नेतुमशक्यत्वादशक्यविवेचनाः कथमेक एवात्मा न भवेत् । यद्यथा प्रतिभासते तत्तथैव व्यवहर्तव्यं यथा वेद्याद्याकारात्मकैकसंवेदनरूपतया प्रतिभासमानं संवेदनं तथा च सुखज्ञानाद्यनेकाकारैकात्मरूपतया प्रतिभासमानश्चात्मा तस्मात्तथा व्यवहर्तव्य इति नातः सुखाद्यनेकाकारात्मा प्रतिभासमानो निराकर्तुं शक्यते । यदि तु वेद्यवेद