________________
आप्तपरीक्षा।
संसृष्टमानस्य षडंशतापत्तेः, ततएवासंसृष्टाः परमाणवः प्रत्यक्षेणालं. ब्यंत इति चेत् कथमत्यासन्नास्ते विरोधाद्दविष्ठदेशव्यवधानाभावादत्यासनास्त इति चेन्न, समीपदेशव्यवधानोपगमप्रसंगात् । तथा च समीपदेशव्यवधायकं वस्तु व्यवधीयमानपरमाणुभ्यां संसृष्टं व्यवहितं वा स्यात् गत्यंतराभावात् । न तावत्संसृष्टं तत्संसर्गस्य सर्वात्मनैकदेशेन वा विरोधात् । नापि व्यवहितं व्यवधायकांतरपरिकल्पनानुषंगात् व्यवधायकांतरमपि व्यवधीयमानाभ्यां संसृष्टं व्यवहितं चेति पुनः पर्यनुयोगेऽनवस्थानादिति कात्यासन्नाऽसंसृष्टरूपाः परमाणवो बहिः संभवेयुः ये प्रत्यक्षविषयाः स्युस्तेषां प्रत्यक्षाविषयत्वे न कालिंगं स्वभावलिंगं वा परमाण्वात्मकं प्रत्यक्षतः सिध्येत् परमाण्वात्मकसाध्यवत् क्वचित्तदसिद्धौ च न कार्यकारणयोर्व्याप्यव्यापकयोर्वा तद्भावः सिध्येत् प्रत्यक्षानुपलंभव्यतिरेकेण तत्साधनासंभवात् तदसिद्धौ च न स्वार्थानुमानमुदियात् तस्य लिंगदर्शनसंबंधस्मरणाभ्यामेवोदयप्रसिद्धेः । तदभावे तद्नुपपत्तेः । स्वार्थानुमानानुपपत्तौ च न परार्थानुमानरूपं श्रुतमिति व श्रुतमयी चिंतामयी च भावना स्यात् यतस्तत्प्रकर्षपर्यंत योगिप्रत्यक्षमुररीक्रियते तता न विश्वतत्वज्ञता सुगतस्य तत्वतोऽस्ति येन संपूर्ण गतः सुगतः शोभनंगतः सुगतः सुष्टु गत इति सुशब्दस्य संपूर्णाद्यर्थत्रयमुदाहृत्य सुगतशब्दस्य निर्वचनत्रयमुपवर्ण्यते । सकलाविद्यातृष्णा प्रहाणाञ्च सर्वार्थज्ञानवैतृष्ण्यसिद्धेः सुगतस्य जगद्धितषिणः प्रमाणभूतस्य सर्वदावस्थितस्य विधूतकल्पनाजालस्यापि धर्मावशेषाद्विनेयजनसंमतत्वोपदेशप्रणयनं न संभाव्यते सौत्रांतिकमते विचार्यमाणस्य परमार्थतोऽर्थस्य व्यवस्थापनायोगादिति सूक्तं सुगतोऽपि निर्वाणमार्गस्य न प्रतिपादकस्तत्वतो विश्वतत्वज्ञतापायात्कपिलादिवदिति । येऽपि ज्ञानपरमाणव एव प्रतिक्षणविशरारवः परमार्थ संतो ने