________________
श्रीविद्यानंदिस्वामिविरचिता
वृत्यर्थत्वात् सुनष्टज्वरवत् । पुनरविद्यातृष्णाक्रांतचित्तसंतानावृत्तेरभावात् निरास्त्रवज्ञानचित्तसंतानसद्भावाच्च “तिष्ठंत्येव पराधीना येषां तु महती कृपति ” वचनात् । कृपा हि त्रिविधा सत्त्वालंबना पुत्रकलत्रादिषु । धर्मालंबना संघादिषु । निरालंबना संपुष्टसंदष्टमंडूकोद्धरणादिषु । तत्र महती निरालंबना कृपा सुगतानां सत्त्वधर्मानपेक्षत्वादिति ते तिष्ठत्येव न कदाचिन्निवाति धर्मदेशनया जगदुपकारनिरतत्वाजगतश्चानंतत्वात् 'बुद्धो भवेयं जगते हिताये' ति भावनया बुद्धत्वसंवर्तकस्य धर्मविशेषस्योत्पत्तेधर्मदेशनाविरोधाभावाद्विवक्षामंतरेणापि विधूतकल्पनाजालस्य बुद्धस्य मोक्षमार्गोपदेशिन्यावाचो धर्मविशेषादेव प्रवृत्तेः स एव निर्वाणमार्गस्य प्रतिपादकः समवतिष्ठते विश्वतत्त्वज्ञत्त्वात् कात्यतो वितृष्णत्वाचेति केचिदाचक्षते सौत्रांतिकमतानुसारिणः सौगतास्तेषां तत्वव्यवस्थामेव न संभावयामः किं पुनर्विश्वतत्वज्ञः सुगतः स च निर्वाणमार्गस्य प्रतिपादक इत्यसंभाव्यमानं प्रमाणविरुद्ध प्रतिपद्येमहि । तथाहि-प्रतिक्षणविनश्वरा बहिराः परमाणवः प्रत्यक्षतो नानुभता नानुभूयंते स्थिरस्थूलसाधारणाकारस्य प्रत्यक्षबुद्धौ घटादेरर्थस्य प्रतिभासनात् । यदि पुनरत्याः सन्नाऽसंस्पृष्टरूपाः परमाणवः प्रत्यक्षबुद्धौ प्रतिभासते प्रत्यक्षपृष्ठभाविनी तु कल्पनासंवृत्तिः स्थिरस्थूलसाधारणाकारमात्मन्यविद्यमानमारोपयतीति सांवृतालंबनाः पंच विज्ञानकाया इति निगद्यते तदा निरंशानां क्षणिकपरमाणूनां का नामाऽत्यासन्नतेति विचार्य । व्यवधानाभाव इति चेत् तर्हि सजातीयस्य विजातीयस्य च व्यवधायकस्याभावात्तेषां व्यवधानाभावः संसर्ग एवोक्तः स्यात् स च सर्वात्मना न संभवत्येवैकपरमाणुमात्रप्रचयप्रसंगात् । नाप्येकदेशेन दिग्भागभेदेन षड्भिः परमाणुभिरेकस्य परमाणोः १ रूप, वेदना, विज्ञान, संज्ञा, संस्कार इति ।