________________
आप्तपरीक्षा।
न भवतीत्ययमर्थोऽस्यश्लोकस्य सौगतैर्विवक्षितः । स्पष्टज्ञानस्य भावना-.. प्रकर्षोत्पत्तौ कामिन्यादिषु भावनाप्रकर्षस्य तद्विषयस्पष्टज्ञानजनकस्य, दृष्टांततया प्रतिपादनात् । न च श्रुतानुमानभावनाज्ञानमतत्वविषयं ततस्तत्वस्य प्राप्यत्वात् । श्रुतं हि परार्थानुमानं त्रिरूपलिंगप्रकाशकं वचनं चिंता च स्वार्थानुमानं साध्याविनाभावि त्रिरूपलिंगज्ञानं तस्य विषयो द्वेधा प्राप्यश्वालंबनीयश्च, तत्रालंब्यमानस्य साध्यसामान्यस्य तद्विषयस्यावस्तुत्वादतत्वविषयत्वेऽपि प्राप्यस्वलक्षणापेक्षया तत्वविषयत्वं व्यवस्थाप्यते, वस्तुविषयं प्रामाण्यं द्वयोरपि प्रत्यक्षानुमानयोरिति वचनात् । यथैव हि प्रत्यक्षादर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यत इत्यर्थक्रियाकारि स्वलक्षणवस्तुविषयं प्रत्यक्षं प्रतीयते तथा परार्थानुमानात्स्वार्थानुमानाच्चाथै परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यत इत्यर्थ- . क्रियाकारि चतुरार्यसत्यवस्तुविषयमनुमानमास्थीयत इत्युभयोः प्राप्यवस्तुविषयं प्रामाण्यं सिद्धं प्रत्यक्षस्येवानुमानस्यार्थासंभवे संभवाभावसाधनात् । तदुक्तं " अर्थस्यासंभवेऽभावात्प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वय " मिति । तदेवं श्रुतानुमानभावनाज्ञाना- . प्रकर्षपर्यतप्राप्ताच्चतुरार्यसत्यज्ञानस्य स्पष्टतमस्योत्पत्तेरविरोधात् सुगतस्य विश्वतत्वज्ञता प्रसिद्धैव परमवैतृष्ण्यवत् । संपूर्ण गतः सुगत इति निर्वचनात् सुकलशवत् । सुशब्दस्य संपूर्णवाचित्वात संपूर्ण हि साक्षाचतुरार्यसत्यज्ञानं संप्राप्तः सुगत इष्यते । तथा शोभनं गतः सुगत इति सुशब्दस्य शोभनार्थत्वात् सुरूपकन्यावत् निरुच्यते । शोभनो ह्यविद्यातृष्णाशन्यो ज्ञानसंतानस्तस्याशोभनाभ्यामविद्यातृष्णाभ्यां व्यावृत-- त्वात्संप्राप्तः सुगत इति निरास्रवचित्तसंतानस्य सुगतत्ववर्णनात् । तथा सुष्ठु गतः मुगत इति पुनरनावृत्यागत इत्युच्यते । सुशब्दस्य पुनरना--