________________
आप्तपरीक्षा।
६७
नायमात्मा न चानात्मा स्वात्मत्वसमवायतः । सदात्मैवेतिदेवं द्रव्यमेव स्वतोसिधत् ॥६६॥ नेशो द्रव्यं न चाद्रव्यं द्रव्यत्वसमवायतः। सर्वदा द्रव्यमेवेति यदि सन्नेव स स्वतः॥ ६७ ॥ न स्वतः सन्नसन्नापि सत्त्वेन समवायतः। सन्नेव शश्वदित्युक्तो व्याधातः केन वार्यते ॥ ६८ ॥ स्वरूपेणासतः सत्वसमवाये च खांबुजे । स स्यात् किं न विशेषस्याभावात्तस्य ततोऽजसा ६९ स्वरूपेण सतःसत्त्वसमवायेऽपि सर्वदा। सामान्यादी भवेत्सत्वसमवायो विशेषतः॥ ७० ॥ स्वतः सतो यथा सत्त्वसमवायस्तथाऽस्तु सः। द्रव्यत्वात्मत्वबोद्धृत्वसमवायोपि तत्त्वतः॥ ७१ ॥ द्रव्यस्यैवात्मनो बोद्धःस्वयं सिद्धस्य सर्वदा । नहि स्वतोऽतथाभूतस्तथात्वसमवायभाक् ।। ७२ ॥ स्वयं ज्ञत्वे च सिद्धेऽस्य महेशस्य निरर्थकं । ज्ञानस्य समवायेन ज्ञत्वस्य परिकल्पनं ॥७३॥ तत्स्वार्थव्यवसायात्मज्ञानतादात्म्यमृच्छतः। कथंचिदीश्वरस्याऽस्ति जिनेशत्वमसंशयं ॥ ७४ ॥ स एव मोक्षमार्गस्य प्रणेता व्यवतिष्ठते । सदेहःसर्वविन्नष्टमोहो धर्मविशेषभाक् ॥ ७५ ॥ ज्ञानादन्यस्तु निर्देहः सदेहो वा न युज्यते । शिवाकर्तोपदेशस्य सोऽभेत्ता कर्मभूभृतां ॥ ७६ ॥ स्वतंत्रत्वे हि समवायस्य " षण्णामाश्रितत्वम् अन्यत्र नित्यद्रव्येभ्य"