________________
श्रीविद्यानंदिस्वामिविरचिता
इति कथमाश्रितत्वं स्वयं वैशेषिकैरिष्टमिति तंत्रविरोधो दोषः । तस्याश्रितत्वप्रतिपादने स्वतंत्रत्वविरोधात् । पराश्रितत्वं हि पारतंत्र्यं तेन स्वातंत्र्यं कथं न प्रतिहन्यते । स्यान्मतं न परमार्थतः समवायस्याश्रितत्वं धर्मः कथ्यते यतस्तंत्रविरोधःस्यात् किंतूपचारात् , निमित्तं तूपचारस्य समवायिषु सत्सु समवायज्ञानं समवायिशन्ये देशे समवायज्ञानासंभवात् परमार्थतस्तस्याश्रितत्वे स्वाश्रयनाशात् विनाशप्रसंगात् मुणादिवदिति । तदसत्, दिगादीनामप्येवमाश्रितत्वप्रसंगात् । मूर्तद्रव्येषु सत्सूपलब्धिलक्षपप्राप्तेषु दिग्गिस्येदमतः पूर्वेणैत्यादिप्रत्ययस्य काललिंगस्य च परत्वापरत्वादिप्रत्ययस्य सद्भावात् मूर्तद्रव्याश्रितत्वोपचारप्रसंगात् । तथाचान्यत्र नित्यद्रव्येभ्य इति व्याघातः नित्यद्रव्यस्यापिदिगादेरुपचारादाश्रितत्वसिद्धेः। सामान्यस्यापि परमार्थतोऽनाश्रितत्वमनुषज्यते स्वाश्रयविनाशेऽपि विनाशाभावात् समवायवत्तदिदं स्वाभ्युपगमविरुद्धं वैशेषिकाणां उपचारतोऽपि समवायस्याश्रितत्वं स्वातंत्र्यं वा। किंच समवायो न संबंधः सर्वथाऽनाश्रितत्वात यो यः सर्वथाऽनाश्रितः स स न संबंधो यथा दिगादिः, सर्वथाऽनाश्रितश्च समवायः तस्मान्न संबंध इति इहेदं प्रत्ययलिंगो यः स समवायो न स्यात् अयुतसिद्धानामाधार्याधारभूतानामपि संबंधांतरेणाश्रितेन भवितव्यं संयोगादेरसंभवात् समवायस्याप्यनाश्रितस्य संबंधत्वविरोधात् । स्यादाकृतं, समवायस्य धर्मिणोऽप्रतिपत्तौ हेतोराश्रयासिद्धत्वं । प्रतिपत्तौ धर्मिग्राहकप्रमाणबाधितःपक्षो हेतुश्च कालात्ययापदिष्टः प्रसज्येत । समवायो हि यतः प्रमाणात्पतिप्रन्नस्ततएवायुतसिद्धसंबंधत्वं प्रतिपन्नमयुतसिद्धानामेव संबंधस्य समवायव्यपदेशसिद्धेरिति । तदपि न साधीयः, समवायग्राहिणा प्रमाणेनाश्रितस्यैव समवायस्याविष्वग्भावलक्षणस्य प्रतिपत्तेस्तस्यानाश्रितत्वाभ्युपगमे चासंबंधत्वस्य प्रसंगेन साधनात् । साध्यसाधनयोाप्यव्या