________________
आप्तपरीक्षा।
And
पकभावसिद्धौ परस्य व्याप्याभ्युपगमे तन्नांतरीयकस्य व्यापकाभ्युपगमस्य प्रतिपादनात् । नानाश्रितत्वमसंबंधत्वेन व्याप्तं दिगादिष्वसिद्धं । नाप्यनैकांतिकमनाश्रितस्य कस्यचित्संबंधत्वाप्रसिद्धेः विपक्षे वृत्यभावात् तत एव न विरुद्धं । नापि सत्प्रतिपक्षं तस्यानाश्रितस्यापि संबंधत्वव्यवस्थापकानुमानाभावादिति न परेषां समवायः संबंधोऽस्ति यतः प्रतिनियमः कस्यचित्वचित्समवायिनि व्यवस्थाप्यते । भवतु वा समवायः। किमेकोऽनेको वा ? यदि सर्वत्रैकएव समवायोऽभ्युपगम्यते तदा महेश्वरे ज्ञानं समवैति न पुनःखे दिगादौ वेति कथमवबुध्यते। इहेति प्रत्ययादिति चेन्न तस्येह शंकरे ज्ञानमिति प्रत्ययस्यैकसमवायहेतुकस्य खादिव्यवच्छेदेन शंकर एव ज्ञानसमवायसाधनासमर्थत्वात् । नियामकादर्शनाद्भेदस्य व्यवस्थापयितुमशक्तेः । ननु च विशेषणभेद एव नियामकः सत्तावत् सत्ता हि द्रव्यादिविशेषणभेदादेकापि भिद्यमाना दृष्टा प्रतिनियतद्रव्यादिसत्वव्यवस्थापिका द्रव्यं सत् गुणःसन् कर्म सदिति, द्रव्यादिविशेषणविशिष्टस्य सत्प्रत्ययस्य द्रव्यादिविशिष्टसत्ताव्यवस्थापकत्वात् तद्वत्समवायिविशेषणविशिष्टेहदंप्रत्ययाद्विशिष्टसमवायिविशेषणस्य समवायस्य व्यवस्थितेः । समवायो हि यदुपलक्षितो विशिष्टप्रत्ययात्सिध्यति तत्प्रतिनियमहेतुरेवाभिधीयते यथेह तंतुषु पट इति तंतुपटविशिष्टहेदं प्रत्ययात्तंतुष्वेव पटस्य समवायो नियम्यते न वीरणादिषु नचायं विशिष्टेहेदप्रत्ययः सर्वस्य प्रतिपत्तुः प्रतिनियतविषयः समनुभूयमानः पर्यनुयोगार्हः किमितिभवान् तत्रैव प्रतिनियतोऽनुभूयते न पुनरन्यत्रेति । तथा तस्य पर्यनुयोगे कस्यचित्स्वेष्टतत्त्वव्यवस्थानुपपत्तेः तद्वयवस्थापकप्रत्ययस्यापि पर्यनुयोग्यत्वानिवृत्तेः । सुदूरमपि गत्वा यदि कस्यचित्प्रत्ययविशेषस्यानुभूयमानस्य पर्यनुयोगाविषयत्वात् ततस्तत्वव्यवस्थितिरभ्युपगम्यते तदेहशंकरे