________________
श्रीविद्यानंदिस्वामिविरचिता
wanaannnnnn
ज्ञानमिति विशिष्टेहेदंप्रत्ययात्प्रमाणोपपन्नात्तत्रैव ज्ञान समवायो व्यवतिछते न खादिषु, विशेषणभेदात्समवायस्य भेदप्रसिद्धेरिति केचिद्व्युत्पनवैशेषिकाः समनुमन्यतोऽपि न यथार्थवादिनः । समवायस्य सर्वथैकत्वे नानासमवायिविशेषणत्वायोगात् सत्तादृष्टांतस्यापि साध्यत्वात् । नहि सर्वथैका सत्ता कुतश्चित्प्रमाणात्सिद्धा । ननु सत्प्रत्ययाविशेषाद्विशेषलिंगाभावादेका सत्ता प्रसिद्धैवेति चेन्न । सर्वथा सत्प्रत्ययाविशेषस्यासिद्धत्वाद्विशिष्टलिंगाभावस्य च, कथंचित्सत्प्रत्ययाविशेषस्तु कथंचिदेवैकत्वं सत्तायाः साधयेत् यथैव हि सत्सामान्यादेशात् सत्सदिति प्रत्ययस्याविशेषस्तथा सद्विशेषादेशात् सत्प्रत्ययविशेषोऽपि घटः सन् पटः सन्नि: त्यादिः समनुभूयते । घटादिपदार्थ एव तत्र विशिष्टो न सत्तेति चेन्न, एवं घटादीनामपि सर्वथैकत्वप्रसंगात् । शक्यो हि वक्तुं घटप्रत्ययाविशेषादेको घटः, तद्धर्मा एव विशिष्टप्रत्ययहेतवो विशिष्टा इति । घटस्यैकत्वे क्वचिद्धटस्य विनाशे प्रादुर्भावे वा सर्वत्र विनाशः प्रादुर्भावो वा स्यात् । तथा च परस्परव्याघातः सकृद्घटविनाशप्रादुर्भावयोः प्रसज्यते इति चेन्न, सत्ताया अपि सर्वथैकत्वे कस्यचित्प्रागसतः सत्तायाः संबंधे सर्वस्य सकृत्सत्तासंबंधप्रसंगात् । तदसंबंधे वा सर्वस्यासंबंध इति परस्परव्याघातः सत्तासंबंधासंबंधयोः सकृत्तदुःपरिहारःस्यात् । प्रागसतः कस्यचिदुत्पादककारणसन्निधानादुत्पद्यमानस्य संबंधः, परस्य तदभावात् संबंधाभाव इति प्रागुक्तदोषाऽप्रसंगे घटस्यापि क्वचिदुत्पादककारणभावादुत्पादस्य धर्मस्य सद्भावे घटेन संबंधः क्वचित्तु विनाशहेतूपादानाद्विनाशस्य भावो घटस्य तेनासंबंध इति कुतः परोक्तदोषप्रसंगः । सर्वथैकत्वेऽपि घटस्य तद्धर्माणामुत्पादादीनां स्वकारणनियमाद्देशकालाकारनियमोपपत्तेः । ना. त्पादादयो धर्मा घटादन तरभूता एव, सत्ताधर्माणामपि तदनतिरत्वप्र