________________
आप्तपरीक्षा।
७१
namam
संगात् । तेषां ततोऽर्थातरत्वे घटादुत्पादादीनामतरत्वं प्रतिपत्तव्यं । तथाच त एव विशिष्टा न घट इति कथं न घटैकत्वमापद्यते । ननु घटस्य नित्यत्वे कथमुत्पादादयो धर्मा नित्यस्यानुत्पादाविनाशधर्मकत्वादितिचेत् तर्हि सत्ताया नित्यत्वे कथमुत्पद्यमानैरथैः संबंधः प्रभज्यमानैश्चेति चिंत्यतां । स्वकारणवशादुत्पद्यमाना भज्यमानाश्चार्थाः शश्वदवस्थितया सत्तया संबंध्यते न पुनः शश्वदवस्थितेन घटेन स्वकारणसाम
•दुत्पादादयो धर्माः संबंध्यत इति स्वदर्शनपक्षपातमात्रं । घटस्य सर्वगतत्वे पदार्थातराणामभावापत्तेरुत्पादादिधर्मकारणानामप्यसंभवात् कथमुत्पादादयो धर्माः स्युरितिचेत् सत्तायाः सर्वगतत्वेऽपि प्रागभावादीनां क्वचिदनुपपत्तेः कथमुत्पद्यमानैः प्रभज्यमानैश्चाथैः संबंधः सिध्येत् । प्रागभावाभावे हि कथं प्रागसतः प्रादुर्भवतः सत्तया संबंधः, प्रध्वंसाभावाभावे हि कथं विनश्यतः पश्चादसतः सत्तायाः संबंधाभाव इति सर्व दुरवबोधं । स्यान्मतं सत्तायाः स्वाश्रयवृत्तित्वात्स्वाश्रयापेक्षया सर्वगतत्वं न सकलपदार्थापेक्षया सामान्यादिषु प्रागभावादिषु च तदृत्यभावात् । तत्राबाधितस्य सत्प्रत्यस्याभावाव्यादिष्वेव तदनुभवादिति, तदपि स्वगृहमान्यं । घटस्याप्येवमबाधितघटप्रत्ययोत्पत्तिहेतुष्वेव स्वाश्रयेषु भावात् न सर्वपदार्थव्यापित्वं पदार्थातरेषु घटप्रत्ययोत्पत्त्यहेतुषु तदभावादिति वक्तुं शक्यत्वात् । नन्वेको घटः कथमंतरालवर्तिपटाद्यर्थान् परिहृत्य नानाप्रदेशेषु दविष्ठेषु भिन्नेषु वर्तते युगपदिति चेत् कथमेका सत्ता सामान्यविशेषसमवायान् प्रागभावादींश्च परिहृत्यद्रव्यादिपदार्थान् सकलान सकृद्यानातीति समानः पर्यनुयोगः। तस्याः स्वयममूर्तत्वात्केनचित्प्रतिघाताभावाददोष इति चेत् तर्हि घटस्याप्यनभिव्यक्तिमूर्तः केनचित्प्रतिबंधाभावात्सर्वगतत्वे को दोषः ? सर्वत्र घटप्रत्ययप्रसंग इति चेत् सत्तायाः सर्व